________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
वायुः पित्तं कफश्चेति त्रयो दोषास्समासतः * । धातुवृद्धिकारकद्रव्याणां तावद्वद्धिमात्रफलमुहिश्य प्रवृत्तिश्चेत् अल्पफलमिति आयुर्वंदप्रवृत्तेः बहुपुरुषार्थप्रदायकत्वादित्याशयं मनसि निधायाह -चिरोति । चिरायुरिच्छा+प्रवृत्तिरायुर्वेदार्थपुरुषार्थोपपादिका ।
चिरशब्देन कार्यसिद्धिद्रव्यादने जाते आयुष्कामयमानस्य प्रवृत्तिः इच्छतः पुरुषस्य चिरायुर्मे भूयादिति कामनाविषय. कप्रवृत्तिः शास्त्रसम्प्रदायकथितविषयकानुभवहस्तकौशल्यादिपाण्डित्यं यस्यास्ति तस्य ईदृशप्रवृत्तिः पुरुषार्थोऽयमिति चिरायुरिच्छाप्रवृत्तिविषयः । आयुर्वेदार्थपुरुषार्थोपपादिकोत प्रयोजनम् । अत्र सूत्रस्थानवचनम् -
आयुष्कामयमानेन धर्मार्थसुखसाधनम् । आयुर्वेदोपदेशेषु विधेयः परमादरः ॥ नन्वस्मिन् शास्त्रे प्रयोजनं आयुर्वेदार्थपुरुषार्थोपपादिकेति प्रयोजनमित्युक्तं. तथा सति रोगाभावकार्यहेतुतायाः कारणत्वं न स्यादित्यस्वरसादाह-तद्धत्विति ॥
तहेतुभूतार्थ रक्षेत् ॥ ३ ॥
तद्धेतुभूतार्थो नाम अरोगकार्यहेतुभूतार्थः । तदेव प्रयोजनम् । तद्रक्षणमेव फलीभूतार्थ तद्धेतु करणीयमित्यर्थः । अत्र सूत्रवचनं
विचारयित्वा सर्वाणि नित्यं देहं निरीक्षयन् । अविकारं निरीक्ष्यैनं पथ्येनैव च तं हरेत् । जीर्णाजीववेकत्वं जिह्वायां विद्यते नृणाम् । * अष्टाङ्गसूत्रं. I-6. रिच्छेत्प्रवृत्ति । अष्टाङ्गसूत्र. I-2.
For Private And Personal Use Only