________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः
आयुर्वेद सूत्रम्
सभाष्यम्.
वप्रक्रीडोहळदन्तघातनिर्यन्महांशुभिः । मेरोरात्माऽऽवृतो भाति तं वन्दे सिन्धुराननम् ॥ परमकारणीभूतपरब्रह्म सकलजीवनोपकारकमायुर्वेदं प्रजापतिब्रह्मणेऽनुजग्राह.
ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इत्यक्तरीत्या अथशब्देन परममङ्गलमाचरन् प्रथमसूत्रमनुगृह्णाति-अथोत।
अथातो धातुस्थदोषगत्यविकारहेतुभूतार्थ वार्धकद्रव्याण्यद्यात् ॥१॥ ___अस्यार्थः-धांतुषु तिष्ठन्तीति धातुस्थाः, दोषाणां गतिः. विकाराभावकार्यहेतुपूर्विका गतिः. तासां हेतुभूतार्थानि अप्रकोपकोरकाणि वार्धकद्रव्याणि भोज्ययोग्यानि अद्यात् इति सूत्रार्थः। धातुषु- .
रसासृमांसमेदोऽस्थिमजाशुक्लानि धातवः' ।। इत्युक्तेषु संचारार्थ तिष्ठन्तीति धातुस्थाः । ते च ते दोषाश्चेति समानाधिकरणसमासः ।
___* वाधिक. अष्टाङ्गसूत्रं. I-13. AYURVEDA.
For Private And Personal Use Only