________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्न:
251
धःकोणौ, तदुपरिकोणमेकमाधारभूतं कामगिर्यात्मक रुद्रात्मकशक्तिविशिष्ट कामेश्वरदेवतात्मकम् । एतादृशगुणविशिष्टमूर्ध्वकोणं अध. कोणद्वयस्य दक्षिणपार्श्वकोणस्य सूर्यचक्रात्मकजालंधरपीठे उड्डियाणदेवतात्मकतदितरवामकोणं सोमचक्रात्मकपूर्णगिरिंगहरपीठं परब्रह्मात्मकशक्तिविशिष्टं त्रिकोणपनं प्रकृतिपुरुषयोरैक्यकर्मणा सर्वदा आनन्दानुभवसुखमनुभूयते । स्त्री प्रकृतिः । पुरुषस्तु ईश्वरः । तयोरैक्यसुखं सर्वदा अनुभूयते । अत एव सर्वरसाधारभूतमिति । सर्वजन्तूनां त्रिकोणपनं सर्वरसाश्रयं प्रजाजननहेतुभूतसुखैकाश्रयत्वात् । यन्नैवं तन्नैवं यथा घट इतीदं सर्व रसाश्रयमिति सर्वप्रमाणसिद्धम् ॥
प्रजाङ्कराविर्भाववद्भूमिप्रदेशः रसादीनामाम्लरसवानिति व्यपदिश्यते । अत एव सर्वरसात्मकत्वं ब्रूमः । प्रजाजननहेतुभूतप्रदेशत्वात् पुंसामपि मेढप्रदेशः त्रिकोणवद्भासते । बीजद्वयस्थितत्रिकोणद्वयविकारभूतबीजद्वयाधिष्ठितं तदुपरि मेढप्रदेशमेककोणम् । तस्मात्सर्वपुंसां त्रिकोणपनं प्रतीतमिति यत्त. दयुक्तम् । अण्डजातपुंवच्छरीराणां मेढात्मकबीजस्यपद्मस्य अभावात् तेषां त्रिकोणपद्मस्थाभावादिति नाशङ्कनीयम् । बीजादुत्पन्नत्वस्य उभयोरपि समानत्वात् । ते अण्डजा इति सर्वशास्त्रसिद्धत्वात् । प्रत्यक्षेण त्रिकोणविकारमेढबीजाभावेऽपि बीजजन्यं पिण्डमित्युभयोरपि समानम् । अत एव अण्डजानां अन्तस्स्थितपेशीति व्यपदिश्यते इति केचित् । अण्डजानां शरीराणां अण्डजत्वं समानमित्यर्थः ।
ननु सर्वशरीरस्थितपद्मानां सर्ववर्णाधारत्वात्, तेषां प्रयो. जनमपि वर्णशापकत्वमात्रमेवेति प्रतिभाति । तत्र त्रिकोणपनस्य
For Private And Personal Use Only