________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमप्रश्नः
245
गतपवनविकारं हन्ति । तन्नैवाम्लरसद्रव्यं मांसधातुविकार करोति । तद्विरसद्रव्यादनादजीर्णे जाते सति तत्तद्धातुविधिविहितामयाः प्रजायन्ते । अनिलाधिकाम्लरसद्रव्यं मजाधातुपोषकम् अनिलभूतादिरूपोपलम्भकाम्लरसद्व्यत्वात् । अनिलभूतादिरूपोपलम्भकाम्लरसद्रव्यं मांसधातुविकारकारकमांसधातुशोषणोपकारकद्व्यत्वात् । इत्यनुमानप्रमाणेन आम्लरसवद्निलद्रव्यं मजाधातुबलकारकं मांसधातुविकारकारकं चेत्युभयफलं प्रयच्छति तत्तजातीयधातुपोषकत्वं प्रतीयते । मांसधातुविरुद्धरसद्व्यस्य मांसशोषकत्वं च प्रतीयते । एवं सकलभूतोत्पत्तिक्रमः । एवमेव सकलभूतानां संहारक्रमश्च बोद्धव्यः । अन्योन्यं यावद्धातुपोषकत्वं तदन्योन्ययोरेव धातुनाशकत्वं च ब्रूमः | रसानां धातुपोषकत्वं यत्र प्रतीयते स एव सृष्टिक्रम इति ज्ञातव्यः । एतद्रसानामेव धातुशोषणैककार्य यत्र प्रतीयते, स एव संहारक्रम इति बोद्धव्यः । तद्वदोषाश्च मलाश्चाशयाश्च तदन्योन्यकार्य विशिष्टसृष्टिं सृजन्ति । तदेव सृष्टिनाशं करोति । अत एवात्मानमात्मना सृजति । आत्मकृतनाशत्वमात्मन्येव । यत उभयोरपि धातवः रसा एव शातव्या इत्यर्थः ॥
ननु स्वादुरसद्रव्याणि इक्षुकाण्डादीनि बहूनि सन्ति । तद्वदाम्लरसवद्भूरुहो बहवस्सन्ति । अथ स्वादुरसस्य शुक्लधातुपोषकत्वं, आम्लरसस्य मज्जाधातुपोषकत्वं वक्तुं शक्यते । तद्वत् लवणरसवद्भूरुहोऽयं भेषजयोग्य इति अदृष्टत्वात् कथं लवणरसवहव्यं धातुपोषकमिति व्यवहर्तुं शक्यत इत्यस्वरसा. दाह-लवणेति।
For Private And Personal Use Only