SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंश्चमप्रश्नः 237 त्तद्धातुभेदेन तत्तच्छरीरभेदात् रसभेदजन्यस्य तदधीनज्ञानजन्य : त्वात् । द्रव्यभेदोऽपि तथा प्रतीयते यत्र रसाधिक्यप्रवीतिः तत्रैव तत्तद्रव्याधिक्यं तत्तद्रुहाणां प्रतीयते। स्वादुरसविशिष्टोऽय वृक्षः । लवणरसविशिष्टोऽयं वृक्षः। कषायरसविशिष्टोऽयं वृक्ष इति तत्तत्सारभेदेन प्रतीयते । तदेतच्छरीरवन्त इति बहुजनसिद्धत्वादित्यर्थः। ननु पित्तदोषप्रदेशाश्रितमांसमंदोधातुस्स्वादुरसाश्रितः । तस्मात्स्वादुरसस्य पित्तप्रकोपनिवर्तकत्वं वक्तुमशक्यम् । विरोधस्स्यात् । रसानां धात्वात्मकत्वात् । धातूनां रसाश्रितमांसा. श्रितत्वात् । तदोषाश्रितरसात्मकधातूनां दोषप्रकोपनिवर्तकत्वं वक्तुमयोग्यमित्यस्वरसादाह-पित्तेति । पित्ताश्रयात्तदधीनपित्तमांस दुकारकः ॥ ३५॥ पित्ताश्रितत्वात् मांसदोधातुस्स्वादुतिक्तकवायत्त्वात् तदाश्रितपित्तविरोधकत्वं शुद्धस्त्रादुरसस्य शुद्धतिक्तरसस्य शुद्धकषायरसस्य च वक्तुं न शक्यते, तदाश्रितरसात्मकत्वात् । किंतु पित्तप्रकोपाय विरोधित्वस्य वक्तुमुचितत्वात् पित्ताधितत्वादिति तदधीनपित्तमिति पित्तं रसार्धानम् । पित्तप्रकोपे सति तद्रसवाव्यस्यैव तन्निवर्तकत्वात् स्वादुरसाधीनं पित्तमिति मांसमेदोधातुगतं सत् वर्तते। मृदुस्थौल्यगुणं विधत्ते। ननु दोषत्रयनियुक्तरोगा असाध्याः । तद्दोषप्रकोपकार्यत्वं रसविरसाधीनजन्यविकारहेतुकं दोषवृद्धिक्षयोत्पादनकार्यनिवर्तकद्रव्यत्वात् । अतः कषायप्रकोपयुक्तकार्योपयोगिकेतरदोषाश्रयकार्य व्यपदिशति-- मन्दति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy