________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्न:
225
जायते तदा आमरसः स्वादुरसजाततान्द्रिकदोषनामकरोगाकृतिज्वरं ज्यलयति । रसाजीर्णविरसाधिकविरुद्धरसाजीर्णजातत्वात् । तद्धि स्वादुरसः रसाजीर्णरोगः तान्द्रिकदोषः । स तदधीनरसविरसः संग्रहजातरोगत्वात् पवनगतिवशात् आमविरससंग्रहसंसर्गाजायते । तत्र अमृतसंपर्कः पोषको भवति । पवनगत्याधारकाजीर्णजनकसरन्ध्रकाभ्यन्तरधरासिरामार्गगतपवनस्य सगन्धिसान्धदोषप्रयुक्तसामज्वरशापकपादपद्मस्थावर्णोपधगबीजपाचमेट्रपृष्ठप्रदेशगतकवर्गपञ्चकवर्णसमूहपदव्यञ्जकेतरवर्णोच्चारण पदगतिसाजात्याभावज्ञानविषयकं भवितुमर्हति । रसाजीर्णविरसाधिकविरुद्धरसजन्यदोषाधिक्यवत्त्वात् । यनैवं तनवामिति । सन्धिातदोषप्रयुक्तसामज्वरपादबीजपार्श्वमेढ़पृष्ठप्रदेशक्रमात् अवगोपगतकवर्गपञ्चकात्मकपदसापकचतुस्त्रिंशत्षट्त्रिंशत्सिरासंस्पर्शवशात् नाभिशूलपादशोभाङ्गवेदनाबलोपद्रवज्ञापककफप्रणवतापान्तरदोषप्रयुक्तसामज्वरज्ञापकजानुपद्मस्थायिपवर्णोपधपृष्ठप्रदेशजठरनाभिपद्मगतचवर्गपञ्चकवर्णपदाभिव्यञ्जकेतरवर्णसाजात्याभिज्ञानविषयकं रसाजीर्णविरसाधिक्यविरुद्धरसजन्यदोषाधिक्यवत्त्वात् अयमान्तरदोषयुक्तसामज्वरः जानुपृष्ठप्रदेशनाभिपद्मगतजानुपद्मगतेवर्णवोधकवर्गपञ्चकचतुस्विंशत्सिरासंस्पर्शवशात् दाहविदाहविविधमोहयातनातिशिरःकम्पकरातिसारहिक्कातिश्वासादिविगुणविशिष्टान्तरदोषप्रयुक्तसामज्वरः ज्वलयति। सर्वधातुमार्ग दशदिनपर्यन्तं धातुषु सञ्चार्य प्राणान्वियोजयति । तस्मादान्तरदोषोऽयमिति व्यवहियते। ___अयमान्तरदोषः जानुपनगतेवर्णबोधकपृष्ठपार्श्वगतनाभिप्रदेशस्थेवर्णोपधचवर्गवर्णपञ्चकात्मकपदार्थावबोधक वर्णसमूहपदकदम्बकवाक्ये चवर्गोचितवणेतरेभ्योभिन्नघोषात्मकवाक्यं श्रावयति।
AYURVEDA.
29
For Private And Personal Use Only