________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पश्चमप्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
223
ननु अस्थिगताजीर्णजन्यरसविरसजन्यभेदविशिष्टज्रभेदज्ञाने जाते सति तावत्कालपर्यन्तं लङ्घनाविधिर्भवतु | अगामिजन्यदोषा गतिजन्य कार्य विषमज्वरकार्यम् । तस्य लिङ्गज्ञाने जाते सति तयोर्व्यातिं भूयोदर्शनेन तत्सहचरज्ञानं संगृह्य भषजं कर्तुं शक्यते । आगामिरोगस्य लिङ्गज्ञानाभावात् कथं लैङ्गिकज्ञानावधारणं भवेत् ? इत्यत आह - रसति ।
रसाजीर्णविरसाधिकविरुद्ध र सजदोषाधिकैकवशाभिभूतस्स्वस्थानच्युतो बहिरुज्जुलयन् ज्वर
स्सामजातः ॥ २५ ॥
ननु दोषाणां पचनमिति विग्रहः । अत्र षष्ठीतत्पुरुषः । तत्पाचनमेव निवर्तकं कर्मेति प्रतिभाति । दोषाणां शरीरस्थितधातुगत्यविकारैकफलस्य संभावितत्वात् लङ्घनेन दोषपचनं अवश्यकं कार्यमित्युक्ते सति बन्धः स्यात् । धातुपोषकपुरुषार्थीपकारककर्मणि तद्दोष पचनार्थ लङ्घनकर्मकरणस्य दोषस्य बलहीन कार्यकर्मणस्समर्थनैकस्वभावत्वात् । कारणबलाधिक्यकार्ये क र्तव्ये सति तद्धेतुबलहीन कार्यकर्मकरणस्य तथात्वात् । धातुपोषक पुरुषार्थोपकारककर्मणि तद्दोषपचनार्थ लङ्घनकर्मकरणस्य तथात्वात् । तेषामन्त्यपवनदोषहीनपचनकार्य सूच्यते । तस्मात् विरसाज्जाताजीर्णनिवृत्तिपर्यन्तं लङ्घनकरणं विधिरिति । अन्यथा रसाजीर्णेन रसा विरसा भवन्ति । तद्विरसबाहुल्येन दोषा अपि बलसैन्यवन्तो भवन्ति । हीनकारणेन हीनकार्ये भवति । यत्र विरुद्धा रसा आविर्भवन्ति तत्र दोषा अपि दुष्टा भवन्ति । तद्दो
1 एतत्सूत्रं A. B. कौशयोः " यावद्धातु" इत्यादिसूत्रात्प्रागेव दृश्यते.
For Private And Personal Use Only