________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
198
आयुर्वेदसूत्रे
ननु स्थावरजङ्गमशरीराः प्रकृतिपुरुषात्मकाः। अत एव सप्तधात्वावृतं शरीरमिति शरीरावच्छेदकं सप्तधात्वावृतत्वामिति। तद्वदेव षडूसात्मकं शरीरमिति वक्तुं सुकरत्वात् स्थावरशरीराश्चतुर्धात्वात्मका इत्यस्य विनिगमकाभावात् शरीरत्वावच्छेदकावच्छिन्नस्य सर्वत्रापि समानत्वात् इत्याशयं मनास निधायाह-रेचकेति ।
रेचकपूरकधारकेभ्यो विकसति ॥६२॥ रेचकपूरकपवनधारणात् तत्तद्वर्णाधिष्ठितपद्मानां निमीलनोमलिनेन तत्तद्वर्णबोधो जायते । तस्मादिदं शरीरं सप्तधात्वावृतं वर्णोच्चारणहेतुभूतद्रव्यत्वात् । ते तु न तथा । तावद्योग्यत्वात् चतुर्धात्वात्मकेन अर्धशरीररवत्वाञ्च तत्कोरकपुष्पपत्रलतादयः निमीलनोन्मीलनं च कुर्वन्ति बहिः पवनसंपर्कवशात् । रेचकधारकात्वमात्रं ब्यपदिशन्ति । तस्माञ्चलनात्मकं कर्म कुर्वते ।
ननु जङ्गमशरीरं शरीरान्तरजनकं स्थावरोत्पादकहेतुभूतद्रव्यत्वात् । एवं वृक्षः वृक्षान्तरजनकः स्थावरोत्पादकहेतुभूतात्मकत्वस्य च उभयोरपि समानत्वात् । अत एव स्थावरशरीराणामपि सप्तधात्वात्मकत्वं कथं निषिध्यत इत्यस्वरसादाह-लिङ्गोत ।
लिङ्गयोनिसंयोगाच प्रजया पशुभिः प्रजननं प्रजायते ॥६३॥
लिङ्गस्य प्रजाजननहेतुभूतत्वा स्थावराणां च प्रजाजननकाले वृक्षान्तरसंयोगकार्यस्य अहष्टत्वात् , स्थावरशरीरत्वात् जङ्गमशरीरवत् स्थावराणां वक्तुमयोग्यत्वात् । अत एवोक्तं रसादिचतुर्धात्वावृत शरीरमिति ।
1 एतत्सूत्रात्प्राक् “ सर्वकालदव्यगुणदौ कफपित्तविकारनाशकौ " इत्यधिक;
For Private And Personal Use Only