SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्न: 193 ये ये शरीरासमद्रव्यात्मकाः तत्र तत्र किंचिदुचितस्वादुरसः ॥ ५७॥ . पवनप्रकोपनिवर्तको भवतीति तात्पर्यम् । जलद्रव्यस्य अतिशीतलगुणवत्त्वेन पवननिवर्तकद्रव्यत्वं न भवति । तर्हि स्वादम्ललवणरसाः पवननिवर्तका इति प्रतिपादित शास्त्रस्य का गतिरिति नाशङ्कनीयम् । घृतनिष्ठस्वादुरसः पवनप्रकोपनिवर्तकः । क्षीराणि च तथा । तैलगुणश्च । एरण्डतैलगुणश्च । जलद्रव्यावयवाधिक्याभावजन्यशरीरजातस्यादुरसः पवनप्रकोपनिवर्तको भवतीति न तात्पर्यम् । इक्षुकाण्डनिष्ठस्वादुरसस्य अधिकजलावयवावृतशरीरत्वेन अतिशीतलद्रव्यत्वेन तनिष्ठस्वादुरसस्य मधुरत्वात् तत्पवनप्रकोपनिवर्तकं न भवतीति तादृशस्वादुरस: पित्तप्रकोपनिवर्तक इति तात्पर्यम् ॥ ननु यत्राद्रव्यावयवाधिक्यं तच्छरीरनिष्ठस्वादुरसस्य अतिमाधुर्यात् तत्राधिकस्वादुरसवव्यस्य जलत्वस्य अवच्छेदकत्वात् तद्वच्छीतस्पर्शवत्त्वमपि तस्यावच्छेदकं भवति । यत्र शीतस्पर्शवत्त्वं तत्र जलत्वं, इति व्याप्तेर्ग्रहीतुं शक्यत्वात् । तच्छीतस्पर्शविशिष्टजलीनष्ठस्वादुरसः कथं पवनप्रकोपनिवर्तको भ. वेत् ? अनुभवविरोधात् । तथाहि -- शीतस्पर्शविशिष्टस्वादुरसवद्र्व्यं पधनप्रकोपकारकम् । तन्निष्ठपवनप्रकोपनिवृत्त्यर्थ अनलसंयोगजन्यकार्यसंस्कारीवीशष्टजलं पवनप्रकोपनिवर्तकमिति तजलानलसंपर्कवशात् पवनजनकशीतलगुणं विहाय तस्य अनलसंयोगवशात् तजलं पवननिवर्तकं कथं भवेत् ? तस्माद्यत्रयत्राद्रव्यावयवाधिक्यं तत्रतत्र तथा अतिशीतलस्पर्शवत्व AYURVEDA 25 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy