________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
174
आयुर्वेदसूत्रे
ननु पवनविकारा बहवस्सन्ति । तथाहि नेत्रवायुः, कर्णवायुः, शिरोवायुः, पक्षाघातवायुः, धनुर्वायुः, अर्दितवायुः, गुल्मवायुः, प्लीहवायुः, कटिवायुः, इति । तत्तल्लक्षणलक्षितानि तत्तद्ज्ञापकान्यपि बहूनि सन्ति । सिरासंचरितपवनगतिविकारभेदात् तत्तदङ्गस्थितानि तत्तद्विकारभूतानि । एक एव पवनस्सन् तत्त दङ्गगतोपाधिभेदात् तत्तन्नामाभिधेयाः तत्तदङ्गोपद्रवकारकाः प्र. णघातुकाश्च भवन्तीत्यखरसादाह-तदिति । __ तत्सिरामार्गगतपवनप्रकोपभेदाधिष्ठानोपाधिभेदात्पवनविकारभेदाः । 'आमपित्तविषरसविरोधि द्रव्यं भेषजम् ॥ ३६ ।।
आमपित्तरसविरसजातरोगास्तच्छब्दार्थः । तत्सिरारन्ध्रमार्गेषु अनिलविकारो भूत्वा तत्सिरासंसर्गप्रदेशेषु यावत्कारणानुगतपवनगतिवैचित्र्यात् उवर्णबोधकसिगसंस्पर्शनं पवनगतिरोधकारकम् । कटिप्रदेशपद्मश्वयथुहेतुकम् । एवर्णबोधकसिरामार्गसंस्पर्शनं पनगतिरोधकारकम् । बीजपद्मश्वयथुहेतुकम् । ऐवोंद्वोधकसिरामार्गगतपवनगतिरोधनं तत्पार्श्वश्वयथुहेतुकम् । आमपित्तरससारं बीजपार्श्वश्वयथुहेतुकम्, तद्वर्णवोधकासरामार्गगतपवनगीतकारकत्वात् । यन्नैव तन्नैवं यथा घटः । इत्यनुमा नेन अच्स्वराधिष्ठानहेतुभूततत्तत्पद्माधारकसिरारन्ध्रभागगतपवनगतिः सुस्वरविशिष्टवर्णात्मकपदज्ञानप्रतिपादिका, ज्ञानेच्छा. प्रयत्नादिना ताल्वोष्ठपुटव्यापारात्मकबाह्यपवनाहृतसंस्कारोद्वो
- 1 भेदाः । मांसधातुपोषकद्रव्यं तत्र भेषजम् । आम-इति A. B. कोशयोरधिक:पाठः.
For Private And Personal Use Only