________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः ।
178
शिर:कमलस्थामृताहरणयोग्यश्वासोच्छ्वासानिलाभ्यामाहृत तवर्णबोधकारिकार्योत्पादकतत्पन्नान्येव आलवालानि तेष्वमृतपूरणं कर्तुं सरन्ध्रकाभ्यन्तरधरषसिरा एव हेतुभूता भवन्तीत्यर्थः।
ननु सिरामार्गगतामृतप्रवाहप्रतिबन्धकजन्यामयकारणं आमपित्तविषसारं भवितुमर्हति तत्सिरासंसर्गसंस्कारजातरोगहेतुकत्वात्, यन्नैवं तनैवं यथा घटः । इत्यनुमानप्रमाणेन आमपित्तरसस्यैव हेतुत्धप्रसंगादित्यस्वरसादाह-सिरे इति।
सिरामार्गगतपवनमांसधात्वनुसृतजानुजनोरुबीजपार्श्वपद्मगत इ, उ, ऋ, ए, ओ, ऐ वर्णोद्दोधकसरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनगतिनिरोधानादनिलप्रकोपो भवति ॥ ३५॥
आमपित्तरससारं जानुजचोरुबीजपार्श्वस्थितपद्माधारकसिरामार्गसंस्पर्शनान्मांसधातुदूषणात् इवर्णबोधकसिरास्पर्शनं पवनगतिरोधनं जानुपद्मव्यहेतुकं उवर्णबोधकसिरासंस्पर्शनं पवनगतिरोधकारकं जङ्घोरुपद्मद्वयहेतुकं ऋवर्णबोधकसिरासंस्पर्शनं पवनगतिनिरोधनवात्सराभ्य उत्पन्नं ज्ञानं सिरामार्गगतपवनगतिजन्यविस्वरोद्वोधकहेतुको भवति । यावद्रोगजनकसामग्री तत्तद्रोगनिदानहेतुभूतविस्वरोद्वोधककार्यकारिणी भवति । उदरपाण्डुशो सविसर्पकुष्ठरक्तवातपवनकार्याणां एकसामग्रीजन्यत्वात् तत्सिरागतपवनकार्यभेदादेव तद्रोगभेदं जनयतीत्यर्थः । तत्तद्रोगनिदानं तत्तत्स्थस्वरविशेषावर्णात्मकपदोच्चारणं तत्तव्याधिविशानहेतुकं भवतीत्यर्थः।
For Private And Personal Use Only