________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
158
आयुर्वेदसूत्रे
मानमिति घण्टाघोषेण नराणामुदरामयानां स्वादुरसद्व्याणि चाधिरसद्रव्याणि च आरोग्यकारकाणांति प्रतिपादितानीत्यर्थः॥
मूलाधारो बलं पुंसां शुक्लं यत्तद्धि जीवितम् । इति वचनानुसारेणापि नियामको ज्ञायते । सर्वजन्तूनां शनैश्शनैरेव रेचयदिति सूत्रात्सम्यक्प्रतिपादितमित्यर्थः ।
ननु एकैकरसद्रव्येण विरेचनकार्यकरणं कर्तव्यं वा, उत अल्पमल्प वा दातव्यं वा सर्वमेलनं या आमनिवृत्तिफरणं किंचित्किंचित्करणं वा? नाद्यः-एफैकद्रव्येण विरेचनं कार्यमिति चेत् उक्तविरेचनपदार्थानुदिश्य यावत्करणविधिरप्रयोजकं स्यात् । न द्वितीयः-अल्पाल्पकरणेन केवलमामनिवृत्तेरेवाभावात् । शुखामनिवृत्तिकरणं उदरामयनिवृत्तिकरणं, उदरामयनिवृत्तिकर्मनिवर्तकत्वस्य चरितार्थत्वात् । न तृतीयः-सर्वपदार्थानां समीकृत्य योगकरणमिति चेत् अतिविरेचनं स्थात्-धातवास्त्रावयन्ति । तत्स्नावणेन अतिरिक्ततया दोषप्रकोपस्स्यात् । तस्मादेतावन्मानं व्यर्थ स्यात् इत्यस्वरसादाह-पवनति ।
पवनाद्यप्रकोपादनेबलं पोषयन्क्रियाक्रमः॥२०
पवनाद्यप्रकोपादिति । आदिशब्देन वातपित्तकफदोषाः प्रतिपादिताः। तेषामप्रकोपकरणं फलीभूतार्थस्स्यात् । तस्य अग्निबलदूषकत्वात् येन केन प्रकारेण जठराग्निप्रवर्धकसामग्रीकार्यस्य फलीभूतार्थत्वात् सर्वोदरामयानां जठराग्निप्रवृद्धिकरणं क्रियाक्रमः॥
पवनादीनां प्रकोपरूपाभावकार्यस्य प्रायोगिकत्वेन शद्धदोषादिविज्ञानं शुद्धरसादनजन्यमिति तयोर्व्याप्तिं गृहीत्वा भूयो
For Private And Personal Use Only