________________
Shri Mahavir Jain Aradhana Kendra
156
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसू
ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनी । प्राणापानान्सन्दूष्य कुर्युस्त्वमांससन्धिगाः ॥ आध्माप्य कुक्षिमुदरमष्टधा तच्च भिद्यते' |
रसविरसादनजाताजीर्णेन जातरोगः तन्निवर्तकाभावसामप्रया आमादिवृद्धिं जनयति । तेन मन्दानिलोऽपि भवति । शरीरस्य पञ्चभूतात्मकत्वेन स्वादुरसादनात्पवनप्रकोपो निवर्तते । तद्विरसद्रव्यादनात्पवनप्रकोपो दृश्यते । तस्मादुद्भूताभिवृद्धितया सरन्ध्रकाभ्यन्तरधरसिराणामपि परिपीडनात् पवनसञ्चाराभाचत्वेन आपस्स्रवन्ति आ कुक्षिपरिपूरणात् । रसासृबांसधातुषु सिरा दृश्यते । तस्मात्कुक्षिजलं तत्तु धातुवत् न जीर्यते । स उदरामयो भवति । स एवाष्टधा भिद्यते इत्यर्थः ।
ननु उद्भूतरसविरसद्रव्यं पवनप्रकोपहेतुकं उद्भूतग्रहणस्वादुरसविरसद्रव्यत्वात् । कथं तर्हि फलरसविरसद्रव्यजन्यरोगस्य स्वादुरसवद्रव्यं न भेषजानिवृत्तनिवर्तकं पवनप्रकोपाप्रवकद्रव्यत्वात् यन्नैवं तन्नैवं यथा घटः । आमनिवृत्तिद्वारा उदरामयोऽपि न जायते । तत्प्रागभावपरिपालनकार्यस्य तदुपयो गिकत्वात् इत्याह-स्वाद्विति ।
स्वादुरसवद्विरेचनद्रव्यं तत्र भेषजम् ॥ १८ ॥
उदरामयनिवर्तकद्रव्याणि क्वाथकल्कावलेहभेषजद्रव्याणीत्यर्थः । तत्र वातकृतोदरामये ते पदार्थाः । सर्वेषामपि सम्भावितत्वात् इति तनिवर्तर्कस्य रेचनोपयोगिद्रव्यत्वेन तत्तद्दव्ययोग्यकालं विज्ञाय चिकित्सा कार्येति व्यपदिशति - शनैरिति ।
1 अष्टाङ्ग निदान. XII 1-3.
For Private And Personal Use Only