________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रश्नः
155
ईश्वरस्तु करचरणाद्यवयवी भूत्वा प्रपश्चोत्पादकं कर्मकुरुते । तथाच श्रुतिः
"ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्यां शूद्रोऽजायत। चन्द्रमा मनसो जातः । चक्षोस्सूर्योऽजायत । मुखादिन्द्रश्चाग्निश्च" इति शरीरान्तरात्मव्यतिरिक्तेश्वरसद्भावे प्रमाणम् ।
अन्तस्थितस्सन् फर्म कुरुते । तस्मात्प्रत्यहं पथ्यादनेन भा. व्यम् । अन्यथा रोगास्सम्भवन्ति । तेन शरीरिणः करणसामर्थ्याभावात् असाध्य उदरामयः । सिरामार्गेषु बहिःपवनपूरणं उदररोगनिवर्तकं तदुपयोग्यनिवर्तकानिवृत्ते सति पवनपूरणयोगस्य करणस्य निवर्तकत्वात् । आत्ममनस्संयोगो योगः योगार्जकत्वात् । स एव जठरानलप्रदो भवति । उदरामयविषये आग्निप्रज्वलनद्रव्यं निवर्तकम्, योगाग्निजनकसामग्रयास्तत्र भेषजत्वात् । अजीर्णाजातोदरामयनिदानं व्याचष्टे---स्वाद्विति । _स्वादम्ललवणरसजन्यानिलसिरया पूरयन् जघनपद्मविषयं प्रचलति ॥ १६॥ __ स्वादुरसविरसद्रव्यादनादजीर्णादामाम्बुवृद्धिरुदरं जायते ॥१७॥ ___स्वादुरसविरसद्रव्यादनं उदरामयहेतुकम्, तदनलेनाजीर्ण जाते सति तेन अम्बुभूताधिक्यप्रवृत्तेजीतत्वात् तेन मन्दानलो भवति । अधिकानलदोषो भवति । तत्र निदानवचनम्
" रोगास्सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु । अजीर्णान्मलिनैश्चाग्नर्जायन्ते मलसञ्चयात् ॥
1 A & B. कोशेषु इदं दृश्यते. न व्याख्यातमत्र.
For Private And Personal Use Only