________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
138
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेद सूत्रे
'सुखप्रकाशोद्रेकाच्चिच्छक्तिविषयकस्स आनन्दः।'
सुखानन्दानुभवार्थोऽपि यत्सुप्ते सति प्रकाश्यते स एवानन्दो भवति । निर्विचारभाव्यमनोद्रेकस्य हेतुर्भवति । तस्माचिच्छक्तिविषयकः चित्स्वरूपज्ञानशक्तिविषयकः आनन्दो भवतीत्यर्थः ।
ननु परब्रह्मणः निर्गुणत्वेऽपि स एव गुणवान्भवति । निर्गुणत्वं नाम निरवयवत्वस्य अवच्छेदकत्वम् । आत्मनोऽपि निर्गुणत्वात् मनसस्तगोचरत्वं वक्तुं न शक्यते । निर्गुणत्वस्य निर वयवद्रव्यत्वात्, मनसोऽपि निर्गुणत्वात् इन्द्रियत्वेन आत्मविषयकज्ञानग्राहकत्वं वक्तुमशक्यत्वात् इति आत्मन: अगोचरत्वादेव इन्द्रियाणामपि तत्प्राप्यत्वासंभवेन मनसोऽप्यप्रयोजकत्वा* पत्तिरित्यत आह-अस्मिन्निति ।
अस्मिन्ग्राह्यसत्यसत्तामात्रविषयकत्वेन समाधिः सा स्मृता ॥ ८६ ॥
अस्मिन्ब्रह्माणि ग्रहीतुं योग्यो जीवः तस्य परमात्मविषयकत्वेन ब्रह्मसत्ता स्वयं जगस्त्वरूपकारणत्वेन प्रकाश्यत इति सत्यं ब्रह्म मनसोऽप्यविषयो भवति । गुणरहितब्रह्मणः मनोग्रा ह्यत्वस्य वक्तुमशक्यत्वात् । सत्तेति सत्तामात्रविषयकं ज्ञानमुपलभ्यते । आत्मना सह मनस्समाधीयत इति समाधिः सा स्मृता ।
ननु निर्गुणब्रह्मणः जगत्कारकत्वं वक्तुमयोग्यमिति चेत्, न,
1 सुखप्रकाशमानभाष्यम नोद्रेका - A & B. * एतदुपरि 'रजस्तमेविशारद्यान्तःकरणसत्वमनोद्रेकात्सानन्दः' इत्याधिकं सूत्रं AB. कांशयोः - श्यते तच्च न व्याख्यातं भाष्यकृता.
For Private And Personal Use Only