________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्न:
187
नन्दस्वरूपम् । एवं गुणविशिष्टपरमात्मानं विषयीकृत्य अवलम्बते । एवं विचाररूपतर्कस्य रोगाभावकार्यजनकप्रयोजनप्रयतनं फलं भवति । तस्मादेशकालमावना योगस्य विचार इत्युक्तम् । देशस्तु द्रव्योपाधिना त्रिधा भवति । क्वचिद्देशविशेषजन्यद्रव्यादनेन तद्देशीयानां वाताधिक्यं भवति । कचिदेशविशेषजातद्रव्यादनात्पित्तप्रकोपो भवति । क्वचिद्देशविशेषजन्यद्रव्यादनेन कफप्रकोपो भवति । तत्तद्देशीयानां तत्तद्रोगनिवर्तकद्रव्याणां तत्तद्देशस्थितानां शरीरदाळकरणं विचारयेदित्यर्थः । तत्तत्कालद्रव्यादनमपि पित्तरोगनिवर्तमिति तत्तत्प्रयोजनानि विचारहेतुकानि संपाद्य कालं प्रापयदित्यर्थः ॥
ननु मनस आत्मप्रकाशार्थ आत्मव्यतिरिक्तसर्वपदार्थक्षानस्यावश्यकत्वात् तर्कसहकृतज्ञानमावश्यकं भवति । स तर्क आत्माज्ञानार्थ परंपरया हेतुर्भवति । सविचार इत्युक्तम् । तर्हि निर्विचारोऽपि मोक्षप्रपादको भवतीत्युच्यमाने सति विचाराभावो निर्विचारः कथं भवतीत्यस्वरसादाह - अस्मिन्निति।
अस्मिन्देशकालधर्मावच्छिन्नधर्ममात्रावभासनं निर्विचारः ॥ ८४॥
अस्मिन् ब्रह्माण देशतः कालतः वस्तुतश्च परिच्छेदाहित्यं तस्मिन्नारोपितधर्ममात्रं इदं भासते । तत्र इतरपदार्थविषयकशानराहित्यस्य उपस्थितत्वात्, तत्रेतरपदार्थविचाराभावो निर्वचार इत्यर्थः ।।
ननु सर्वविषयज्ञाने जाते सति आनन्दो भवति । एतदभावो निर्विचारः, तानन्दानुभवोपलब्धिः कथं स्यादित्यस्वरसादाह-सुखेति ।
AYURVEDA
For Private And Personal Use Only