________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
125
तृतीयप्रश्नः -~~~~~~~~~
~~
'विषयविरागतः प्रवाहोत्साहात् पुनःपुनरभिनिवेशनं वैराग्यम् ॥ ५९॥
__ अस्यार्थः -खचक्षुरिन्द्रियगोचरविषयकनानस्याविषयो रजतम् । अस्मिन् भ्रान्तिराहित्यं विरागत्वं, अन्तश्चित्तप्रवाहे शु. क्तिरियमिति धारावाहिकज्ञानम् । तद्धयानाहितशाने उत्साहः प्रीतिः, पुनः पुनरभिनिवेशनं पौनःपुन्यं भृशार्थो वा । इयं शुक्तिः नेदं रजतमिति (संशय) क्रियादिराहित्यं विरागसम्बन्धि वैराग्यम्। पुरोवर्तिविषयः शुक्तिर्भवितुमर्हति रजतविषयकज्ञानाविषयकत्वे सति सविषयकत्वात् । मनसि उत्पन्नशुक्तिविषयकज्ञानस्य अ. प्रामाण्याभावत्वं सिध्यतीत्यर्थः ।
ननु धारावाहिकज्ञानानां गृहीतग्राहिणामपि पुरोवर्तिनीद. न्त्वेन रजतत्वेन अप्रमाजनकवाक्यज्ञानेन शुक्तौ संशयभ्रमज्ञानविषयकं खत एव तद्भवतीत्यखरसादाह -दृष्टेति । 'दृष्टानुश्राविक विषयतृष्णावशकिरणसंज्ञास्तथा। __पूरोवर्तिनीदन्त्वेन ज्ञानोत्पत्तिं विना इदं शुक्तिविषयक शुक्तिविषयकज्ञानग्राहकसामग्रीजन्यत्वात् इत्यनुमानेन पुरोवर्तिशुक्तिकाशकले विगततृष्णा यस्यास्सापि विगततृष्णा, तस्या वशीकरणसंशकं विषयो भवतीत्यर्थः ।
ननु पुरोवर्तिनि शुक्तौ इन्द्रियार्थसकलसामग्रयां सत्यां तद्वति तत्प्रकारकानुभवे सति सोऽनुभवो न भ्रमसंशयज्ञान
1 विषयदोषविकारकान्तः प्रवाहोत्साहपुन:पुनरभिनिवेशनं वैराग्यम् A. विषयदोषविकारगतः प्रवाहोत्साहासनः पुनःपुनरभिनिवेशनं वैराग्यम्-B.
2 योगः, I. 1, 15. विषयविवष्णा' इति पाठान्तरम्.
For Private And Personal Use Only