________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयप्रश्नः
119
... सार्द्रद्रव्यं नाम अप्पयश्च मूत्रं च मधु च तैलं च घृतं च, इदं साद्रव्यं भवति । एतद्योगकरणं विशिष्य झाप्यत इत्यर्थः। ___ननु पोषकद्रव्ययुक्ताल्पशोषककल्पकद्रव्ययोग भेषजं निवर्तकं भवेदिति प्रतीयते । इदानीं केवलं साद्रव्ययोगकरणेन किं फलं भवेदित्यस्वरसादाह-सस्नेहमिति । .. सस्नेहमाई कार्यम् ॥ ४६ ॥
स्नेहयुक्तद्रव्यं निवर्तकामिति यथोच्यते तथा पोषकद्रव्याधिक्यजातपार्थिवद्रव्यं चूर्णीकृत्यावपेत् । तत्पाककरणेन निद्रवं यथा भवति तथा अग्नौ विपाच्य तत्पानलेएनाभ्यङ्गावगाहनात्तत्तजन्यपञ्चेन्द्रियविषयकप्रमाप्रतिबन्धकं निवर्तयितुं तदेव भेषजं भवतीति न वक्तव्य। । तत्र प्रत्यक्षप्रमाणेन संशयभ्रमयोर्निवारणस्य शक्यत्वात्, इत्याशयं मनसि निधाय प्रत्यक्षप्रमाणस्वरूपं विविच्यते-चाक्षुषेति । - 'चाक्षषप्रतीतीतरजन्यभिन्न विषयकज्ञानप्रमा प्रमाणम् ॥४७॥
चक्षुरिन्द्रियविषयकज्ञानानुभवे सति तदभाववति तत्प्रकारकत्वं तज्ज्ञानस्य यथा विषयो भवति तथा जानुषप्रतीतिजन्येतरत्वं तद्भिनविषयकशानं प्रमाणमिति तादृशप्रमाणेन भ्रमनिवृत्त्यां सत्यां तन्निवर्तकभेषजं विना तत्प्रमाणस्य ज्ञातुं शक्यत्वादित्यर्थः।
ननु कामिलारोगग्रस्तचक्षुषः अस्मिन् शङ्ख पातविषयकशाने जाते शङ्खः श्वेतः शंखत्वात् इत्यनुमानप्रमाणेन न पीतत्व
* चाक्षुषप्रतीतिजन्येतरभिन्नविषयकज्ञानं प्रमाणम्.
For Private And Personal Use Only