________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयप्रश्नः •
Acharya Shri Kailassagarsuri Gyanmandir
117
स्तन्यपानाहारोपजीव्य कार्यविशिष्टबालामयानां निवर्तकं ब्रूमः । तन्निवर्तकं रेचकप्रसाध्यम् । मातुराहारजातस्तन्यपानेन अमितत्वेन जातरुज उभयशरीरजन्यत्वात् । प्रायश आमप्रया तत्तद्विरेचकं सुकुमारद्रव्ययोग्यकर्मकरणात् तत्तद्वयाधीनां निवर्तकमित्यर्थः ।
ननु चाक्षुषप्रतीतिजन्यप्रमाप्रतिबन्धकलवणोष्णरसवद्दव्यसंशयविभ्रमी चक्षुरिन्द्रियदोषजन्यौ । तन्निवर्तस्तु कथं निवर्तत इत्यत आह-श्रोत्रेति ।
श्रोत्रेन्द्रियाच्छब्दज्ञानम् ॥ ४० ॥
श्रोत्रेन्द्रियजन्यशाब्दप्रमाप्रतिबन्धक तिक्तरसवव्यादनं तत्संशयव्यतिरेकान्वयौ यज्ज्ञानप्रमाप्रतिबन्धको । कषायतिक्तमधुररसाः परिशुद्धास्सन्तः निवर्तका भवेयुरिति वक्तव्यत्वात् । तथा सति रसनेन्द्रियविषयकरसज्ञानजन्यप्रतीतिप्रतिबन्धकसंशयवि भ्रमौ केन कारणेन निवर्तनीयावित्यत आह- रसनेति ।
रसनेन्द्रियजन्यभ्रमादाम विरसदोषादिकैकरसात्संशयविभ्रमौ भवतः ॥ ४१ ॥
रसनेन्द्रियजन्यशुद्ध रसज्ञानप्रतिबन्धको स्वादुरसवव्यादनविभ्रमादिहेतुकौ यत्संशयव्यतिरेकनिश्चयौ यावदिन्द्रियज्ञानगोचरप्रमाप्रतीतिप्रतिबन्धको तद्विरुद्धद्रव्यादनं तद्धेतुरित्यर्थ ।
घ्राणेन्द्रियविषयक गन्धज्ञानजन्यप्रमाप्रतिबन्धकसंशयविभ्रमकेन हेतुना निवर्त्यते इत्यत आह-घ्राणेति । घ्राणेन्द्रियाद्वन्धप्रतीतिस्तथा ॥ ४२ ॥
For Private And Personal Use Only