________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
आयुर्वेदसूत्रे
योग्यद्रव्येण च तान्पोषयेत् ॥ ३७॥
योग्यद्रव्येणैव च तान् पोषयेत् । मातृस्तन्यपानादिना अजीणे जाते न स्नेहद्रव्यं तत्र प्रयोजकं भवति । तत्तद्रोगोपयोगयोग्ययोगयुक्तं घृतं च तैलं च निवर्तकं भवतीत्यर्थः। तदेव योग्यद्रव्यमिति तार्पयम् । तान् शिशून् प्रत्यहं पोषयेदित्यर्थः । ___ ननु मातृस्तन्यपयः तजन्यशराराणां रोगग्रस्तानां तत्पयो निवर्तकं भवतीत्युक्तम् । इतः पूर्व षड्सवहव्याणां निवर्तकत्वं प्रतिपादितम् । इदानी मातस्तन्यमेव सर्वव्याधीनां निवतकं भवतीत्युक्तम् । तथा चेत् षड्सवहव्याणां निवर्तकत्वं न स्यादिस्यस्वरसादाह-यावदिति।
यावत्स्तन्यपाः तावद्वालकाः स्तन्यपानम् ।।
स्तन्यपानं शिशूनां धातुपोषकं अन्नादनाहतुकत्वे सति रसवहव्यपोषकहेतुकत्वात् । अन्नादनं तु न धातुपोषकं अन्ना. दनायोग्यधातुपोषकत्वात् पोषकद्रव्यजन्यत्वाञ्च इत्यनुमानविधया मातृजन्यपयसां शिशोर्धातुपोषकत्वं अन्वयव्यतिरेकप्रमाणसिद्धम् । यावत्स्तन्यपानोपजीव्यं शिशोरशरीरमिति। सर्वदा मातृपुत्रत्वमात्रं शिशुत्वज्ञापकं न भवतीत्यर्थः । मातुरजीणेजाते सति तच्छिशोस्तदजीर्णवशात् तत्सहशा आमयास्सम्भवन्ति । तत्प्रतीकारस्तु केन कारणेन भाव्यः । तेषां शिशूनां चूर्णघृततैलादीनामसंभाक्त्विात् , अयोग्यत्वाश्च । तत्तदामजन्यामयानां तत्तद्विधिविहितेन निवर्तयितुमशक्यत्वात् इत्यस्वरसादाहबालेति ।
बालयोग्यनिवर्तकं कुर्यात् ॥ ३९ ॥
For Private And Personal Use Only