________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
112
आयुर्वेद सूत्रे .
यावद्विरसदनादनजन्यरोगग्रस्तेन्द्रियगोचरभ्रमशानं मनोविषयकं मानसिकभ्रमानुभवज्ञानगोचरसामग्रीविशिष्टत्वात् । तज्ज्ञानविषयकं पिण्डं तद्भमनिवर्तकरसवदव्यादनपरिपालनम् । भ्रमविषयक ज्ञानं तन्निवर्तकरसद्रव्येभ्यो 'रक्षणीयमित्यर्थः ॥
ननु भ्रमोत्पादकविरसद्रव्यादनाभावकार्यहेतुभूतार्थादने सति अदोषास्सन्तः तत्तदिन्द्रियार्थसन्निकर्षे जाते सति तद्वति तत्प्रकारकत्वानुभवात् तत्र भ्रमो न जायो, संशयज्ञानजनकसामग्रयभावात् । भ्रमप्रत्ययविषयगोचराषियकज्ञानगोचरज्ञानानुभवेन तस्य भ्रमाद्यभा विषयकत्वान् । तज्ज्ञानविषयकपिण्डस्य भ्रमसंशयज्ञानविषयकत्वेन यत्किचिद्दव्यादनकार्यासंभव इत्याह--- अदोषेति ।
अदोषजातपिण्डं कचिनिवर्तयेत ॥२७॥
आशया दुष्टास्सन्तः इन्द्रियार्थसन्निकर्षे सति भ्रमाविषयकमेव गोचरीकुर्वन्ति । तत्साधारणज्ञानविषयकस्य अदोषग्रस्तेन्द्रियविषयकज्ञानगोचरत्वादित्यर्थः ॥
निमित्ते हि पथ्यं भेषजम् ।। २८ ॥
ननु निमित्ते सति रोगो जायते। तत्रैव पथ्य कार्यम् । तत्र लध्वन्नादनं पथ्यम् । तथाच यदा आशया दोषदुष्टा भवन्ति तत्र हीनादने आशयानां रिक्तत्वमस्तीति वक्तव्यम् । 'रिक्त वायुः प्रकुप्यते' इति सूत्रार्थानुसारेण तत्र वायोः प्रबलत्वात् सम्यग्गत्याशयाभावत्वाश्च इन्द्रियणि सविकाराणि भवान्त । तत्र पथ्य भेषजमिति सूत्रं न सङ्गतमित्यस्वरसादाह यावदिति ।
निवर्तनीयमित्यर्थः-इति सुपठः. क चित्रिवर्तकैनै निवर्तयति ।--B
For Private And Personal Use Only