________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयप्रश्न:
93
दुष्कृतकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकर कर्मकारकं ताव - त्पाककर्मकरणाच्छुद्धं स्नेहं तावद्दव्यगुणदायकम् । अतिपाचितं सुपक्कपर्यन्तं पाचितम् । अतिपाचितस्नेहं निवर्तकमित्युक्तम् । पवनप्रकोपहेतुकयावद्रोगशोषकप्रतीकारहेतुकं निवर्तकम् । तत्तु शुद्धस्नेहम् । अपतर्पणं यत्र निवर्तकं भवति तत्रदं वचनं
जीर्णाशने तु भैषज्यं युञ्जयात् स्तब्धगुरूदरे । दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च ।
शान्तिरामविकाराणां भवति त्वपतर्पणात् ॥ एतद्वचनानुसारेण शाषकद्रव्यहेतुकं कार्यम् । एतेन शोषकद्रव्याणां प्रयोजकत्वं प्रतिपादितम् । इदानीं शोषकं कथ्यते । तिक्तोषणकषायरसविशिष्टयावद्दव्यसंयोगहेतुकं कफरोगप्रतिकारकशक्तिविशिष्टगुणप्रधानप्रतिभूतकर्मकारकं यत्तत्कर्मणां यावद्गणदायक शुद्धस्नेहं भवति । अतिपाचितमत्यन्तपाचितं सुपाकपर्यन्तम्, तत्तु स्नेहद्रव्यं कफप्रधानरोगजालनिवर्तकम् । पवनजन्यरोगेषु कचिनिवर्तका. शोषकाः, क्वचिन्निवर्तकाः पोषका इत्यर्थः ।
तस्य स्नेहस्य प्रयोजनमाह---अङ्गेति ।
अङ्गाङ्गसङ्गोऽङ्गविलेपनादगाङ्गविभजनं वि. भाति ॥ ७९ ॥ ___ अङ्गलग्नरोगाणां तत्तत्स्थलसंसर्गात् रोगो विनश्यति । अत्यन्तवेदनाभावादङ्गेषु लेपनमात्रादेव तन्निवर्तते । दोषसञ्चाराभावजास्थिकर्णनासादिसन्धिजीवनेषु विमर्दन पादघट्टनं सम्यकार्यम् ।
] अष्टाङ्ग. सूत्र.
V[[H. 19-20,
For Private And Personal Use Only