________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेक सटीक
प्रकृते तदभावात् । किन्तु महाजनपरिग्रहात् वक्तप्रामाण्यमनुमाय आयुर्वेदे नैरुज्यकामवदिति ।
शङ्क० टी० । कथं पुनरिति । सर्वज्ञप्रणीतत्वाविशेषादिति भावः । स एवैकग्रन्थेनाह । वेदेति । शङ्काभावे बौजमाह । जिनेन्द्रेति । तत्कस्येति । जिनेन्द्रादीनामेव कथं तदादर इत्यर्थः । जिनेन्द्रानां तदादरे हेतुमाह पूर्वपक्षौ । महाजनेति । दूयं शङ्का भास्तु तथापि छान्दसानां कुतस्तत्र न समादर इत्याह । कुत इति । सिद्धान्तौ तत्र हेतुमाह । सिद्धति । नरगिरःपावियादिविधानाद्विरोध इत्यर्थः । अन्नमभौरुभिरिति । अलसाश्च भौरवश्चेत्यर्थः । उदंबरगो देश: । तन्तुवायः कुविन्दः तेनालस्येन वैदिकं कर्म त्यक्त्वा संसारमोचकागमोपदिष्टं कर्म परिग्रहौतमित्यर्थः । कर्मण्येवेति । कष्टमयबहुविधकर्मप्रतिपादकत्वादित्यर्थः । अनन्यगतिकत्वात्-वैदिककर्मानुष्ठानरूपगत्यभावात् । पित्रादौति । अप्रच्युताधिकारपरम्पराकत्वादित्यर्थः । भुभूतिबौद्धविशेषः । प्रथमत इति गाहस्थानन्तरं (२)योगविध्युपासनम्योपदिष्टत्वात्तत्र च कष्टबहुकर्मोपदेशादित्यर्थः । अयोग्यरिति, जीविकायामक्षमैः । सामान्यश्रवणको बौजभूतः [?] श्रवणकः स हि बहुधनं दत्वा बौद्धै स्वदर्शने प्रवर्तितः । श्रागन्तुकानामिति । पाखण्डानामित्यर्थः । कुहक: ऐन्द्रजालिकः । दीपंकरः बहुशुषिरः पुरुषप्रमाणकः हणकाष्ठखण्डस्तत्र हि एक एव दोपः शुषिरनिम्मरत्प्रभो बहुदौपभ्रमं जनयति । बालिशो मूर्खः । तदभावादिति। मूलभूतम्य बालिशत्वाभावादिति
(१) योगविध्यपन्यासम्येति २ प० पा० ।
पु.
पा.।
For Private and Personal Use Only