________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हर
यात्मतत्त्वविबेके सटौके
नास्ति, अनुभूयमानस्तु तद्भागः प्रक्षिप्त इत्याह । एतदेवेति । अध्येत्रिति। चरकसुश्रुतादिपरंपरागतत्वान्न शान्तिकादिभागस्तत्र प्रक्षिप्त इत्यर्थः । अन्यथाकरण इति । अस्य-आयुर्वेदभागस्य । अन्यथाकरणे-प्रक्षेपशङ्काकरण इत्यर्थः। बहुभ्य इति बहनामित्यर्थः । भवदागमेऽपि सर्वत्र प्रक्षेपशङ्का स्थादित्यर्थः । महाजनपरिग्रहौतत्वे हेतौ सिद्धे तत्माध्यमाह। सर्वज्ञपूर्वकत्वेनेति। वेदाः सर्वज्ञपूर्वकाः एतादृशमहाजनपरियहविषयत्वात् यत्रैवं तत्रैवमिति व्यतिरेकौत्यर्थः ।
रघु० टी० । संसारेत्यादि । तथा च तेनैवानेकान्तिकत्वमिति भावः । तथाऽनभ्युपगमात् तदर्थावधारणादेरनिष्टत्वात् । तादृशेच्छायां प्रमाणाभावमाह । अव्युत्पादनादिति । व्युत्पादनं पदानामर्थावधारणोपायप्रदर्शनम् । व्याकरणव्युत्पादितानामपि पदानां सुगताद्यागमे सत्त्वादसिद्धेराह । असाधारणेति । तन्मात्रावस्थितपदव्युत्पादनं तस्योद्देश्यतायां लिङ्गं न च वेदवत्तत्र तदस्तीत्यर्थः। असाधारणपदविरहेण तदव्यत्पादनेऽपि साधारणपदव्युत्पादनेन तथात्वसम्भवात् सन्दिग्धानेकान्तिकत्वमत आह । विरुद्धेति । लिङ्गाभावं व्यत्पादयति । न हौति । विरोधिलिङ्गसद्भावं व्युत्पादयति। तैरित्यादिना । हतौयं तद्विशदयति । मर्वेत्यादि । अन्यथेति भट्टका रिका।
अन्यथाकरणे चाऽस्य बहुभ्यः स्यानिवारणम् । एकस्य प्रतिभानन्तु कृतकान्न विशिष्यत इति । अस्य वेदस्य बहुभ्यः सम्प्रदायप्रवर्तकेभ्योऽध्यापकेभ्यः, न विशिष्यते
For Private and Personal Use Only