________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
व्यत्पाद्यमेवेत्यर्थः । तत्कर्ट भिरिति । व्याकरणकर्तभिरिन्द्रपाणिनिप्रभृतिभिः । तथानभ्युपगमात् संसारमोचकागमप्रतिपाद्यार्थशब्दयोरनभ्युपगमादित्यर्थः। अनभ्युपगमे हेतुमाह। अव्युत्पादनादिति । यथा छन्दःसूत्रैर्वैदिकानि पदानि व्यत्पाद्यन्ने तथा न त्वदागमस्थान्यपि। पञ्चस्कन्धादिपदानि तु भाषायामेव सिद्धानौति भावः । अव्युत्पादने हेतमाह । असाधारणेति । भाषायां यत् पदं न प्रयुज्यते तदसाधारणं लिङ्गं, तदभावादित्यर्थः । न हौति। वैदिकाः शब्दाः उषादयः, अर्थाश्च यागादयः षडोंकारादयः, सुगताद्यागमेषु शब्दस्तादृशो नास्त्येव, अर्थोऽपि मण्डलीकरणादिः । तेषामिति । इन्द्रपाणिनिप्रभृतीनामित्यर्थः । विरुद्धलिङ्गसद्भावाच्चेति(१) विवृणोति । प्रत्युतेति । उपसंहरति । तस्मादिति। नान्येषामिति। न संसारमोचकाद्यागमानामित्यर्थः । हतीयमहाजनपरिग्रहं (२)स्पष्टयति । सर्वेति । तदीयेति । वेदे यच्छान्तिकपौष्टिकाद्यस्ति तस्याऽऽयुर्वेदेनोपदेशादित्यर्थः। शान्य प्रभवतीति शान्तिकम् । पुश्यै प्रभवतीति पौष्टिकम् । तस्मै प्रभवति सन्तापादिभ्य इति ठञ् । एष भाग इति । शान्तिकाद्युपदेशभाग इत्यर्थः । तत्रेति । आयुर्वेदे इत्यर्थः। तथा च नैतन्महाजनपरिग्टहौतमिति शङ्कार्थः । तुल्ययोगेति । तथा च दशमूलीकषायाद्युपदेशभागोऽपि न प्रमाणं स्यात् । न चेष्टापत्तिः, तत्प्रामाण्यस्य संवादेन ग्टहौतत्वादिति भावः । ननु तुल्ययोगक्षेमत्वं तदा स्थात् यदि शान्तिकादिविधिरायुर्वेदे भवेत्, तदेव
(१) विरुद्धलिङ्गसंसर्गसंभवाच्चेति २ पु० पा० । (२) स्फटयतीति २ पु. पा. |
For Private and Personal Use Only