SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ आत्मतत्त्वविवेके सटीक तत्कारणान्यनधितिष्ठतः तत्कर्तत्वमीश्वरस्यापौति चेत् ! न। यस्य कार्यस्य यत्कारणमन्वयव्यतिरेकसिद्धं तत्कारणाधिष्ठानयोः स्थूलसिद्ध्यर्थं तदवयवपरम्पराकारणाधिष्ठानवदवश्यम्भावनियमात्। ननु मर्वत्र कार्ये कायः कारणमिति प्रागपेक्षितः। पितृत्वादोपदेशानुमानम् । तथापि कतम आगमस्तेन प्रणौत इति चेत् ! वेदायुर्वेदादिरित्यरिकरिकर्णज्वरः सिंहनादः। शाङ्क० टौ० । ईश्वरस्य शरीराभावादकत्वमाक्षिपति अस्विति । परार्धेकतानत्वादिति । परप्रयोजनकपरत्वादित्यर्थः । परार्थंकतानत्वमेव कथयति । यो हौति । स्थानं कण्ठताल्वादि। करणं संवृतविवृत्तादिलक्षण: प्रयत्नः । तथा चेति । स्थानकरणपाटवे सति हिताहितविद्वानित्यर्थः । पूर्वपक्षौ अाशयमुद्घाटयति । स्थानेति । तदत्यत्तेरिति। वर्ण प्रति ताल्वादौनां कार्यकारणभावावधारणादित्यर्थः। नन्वीश्वरस्तदन्तरेणापि वर्णान् संजनयेदित्यत आह । न चेति। करणाधिष्ठानयोरवश्यंभावनियमादिति। वाक्यं यावन्न परिसमाप्यते तावदेवानुरूपं दृष्टान्तमाह । स्थूलेति। तहङ्कुरादौ जनयितव्ये कथमौश्वरस्य कायो नाभ्युपगम्यत इत्यत आह । न चेति। पिटत्वादिति। जनकत्वादाप्तत्वावेत्यर्थः। पिता पुत्र जनयित्वोपदिशत्येव, यो यदाप्तः स तमनभिजमुपदिशत्येवेति भावः । कतम इति । भवदभ्युपगतो ऽस्मदभ्युपगतो वेत्यर्थः । अरिकरौति । तवातिदःसहं मम वचनं यतस्त्वदनुन्नीयमानमण्डलीकरणादौनामप्रामाणिकत्वेन तव अमवैयर्यमिति भावः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy