________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन् पलम्भवादः ।
अस्त वा संस्थानविशेषः । न च स एवात्र निबन्धनम् । तस्याभावेऽपि जलानलादौनां चेतनप्रयत्वदर्शनात् । न च शरीरप्रयोज्यं यत् तदेव चेतनप्रेयमिति नियमः । शरीरस्टीव स्वातन्त्र्यप्रसङ्गादित्युक्तप्रायम् ।
तस्मादचैतन्यमाचनिबन्धनमेतदण्डादिषु तथा च परमाण्वदृष्टादिष्ठपि तस्य भावात्तथाभावो दर्वारः । तदेतत् कार्य कारणवत्तया व्याप्नं, मा च विपक्षेऽस
प्यमुपादाय व्यावर्तमाना मपक्षे विश्राम्यतीत्युभयमुखी प्रतिबन्धमिद्धिः ।
शाङ्क. टौ । तेषामिति । वेमाटोनां वमादित्वेनैव पारतन्यमित्यर्थः । ननु दण्डादौनां पारतन्त्र्यं घटाढावेव जनयितव्ये, न त्वन्यत्रापौत्यत आह । न चेति । तस्येति । दण्डादावदृष्टविशेषोपग्रहोऽस्ति येन घटादिकं जनयति तत्रैव पारतन्त्र्यं, क्षित्यादौ तु तत्कारणानां स्वातन्त्र्यमेवेति तदा स्थाद्यदि जातिविशोषनियतोऽदृष्टविशेषग्रहः स्यात्, न च तादृशो जातिविशेषोऽस्ति । तथा च घटेऽपि जनयितये कदाचिद्दण्डादिः स्वतन्त्रः स्यादित्यर्थः । तन्नियतत्वत इति । यज्जात्यवच्छिन्नं जनयद्दण्डादि परतन्त्रं स एव जातिविशेषोऽभिधीयतामित्यर्थः। न चेति। कार्य कारणे च तादृशं सामान्यं नास्ति, यत्प्रयुक्रमचेतनानां पारतन्यमित्यर्थः । असाविति । मामान्य विशेष इत्यर्थः । शारीरिकर्टकत्वव्याप्यतावच्छेदक मामान्यमम्तीत्यर्थः । घटत्वादेरेवेति । व्याप्ये चानुगमो न दोषमावहतीत्यर्थः ।
For Private and Personal Use Only