________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
પૂ
इत्यर्थः । उपादानेतरव्यवस्थेति । समवाय्यसमवायिनिमित्तापेक्षा तु नियतेत्यर्थः । एवं सति कार्यमुपादानं नापेक्षेतेत्याह । तथापौति । पृथिवोजातीयकार्यं पृथिवोजातौयसमायिकारणकमेवेति व्यवस्था निरुपादानत्वे न स्यादित्याह । जातिप्रतिनियतेति । एवं सति उपादानमात्रमेव कारणमस्तु किं निमित्तकारणेन तथा च दण्डवेमादिनिमित्तवैचित्र्येऽपि घटपटादीनामेकजातीयत्वप्रसङ्ग इत्यत आह । उपादानमात्रम्येति । तथाविधात् - विचित्रात् । तदुपपत्तेः---कार्यवैचित्र्योपपत्तेः । एकमात्रकारकत्वे सततोत्पत्तिप्रसङ्गात्सामर्थ्यापेचेत्याह । न किञ्चिदिति । साम्यमापादयितुं पृच्छति । कुत एतदिति । प्रत्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकाभ्यां पुनः साम्यापादनामाह । दृश्यमाचेति । चेतनेऽपीति । तत्रापि दृश्यत्वातेहत्स्यज्यतामित्यर्थः । प्रकृतमुपसंहरति । तस्मादिति । श्रचेतनत्वावछेदेनेव पारतन्यमतस्तदवच्छेदेनेव चेतनाधिष्ठेयत्वं तेन परमाएखदृष्टादीनामपि चेतनाधिष्ठेयत्वमवश्यं वाच्यं न चास्मदादिभिस्तदधिटानं सम्भवतौति ईश्वरस्तदधिष्ठाताऽवश्यं स्वौकर्तव्य इत्यभिधातुं पौठमारचयति । अपि चेति ।
Acharya Shri Kailassagarsuri Gyanmandir
T
रघु॰ टौ० करणत्वं न कर्तव्यापार्यत्वं गुणकर्मणोरतथात्वप्रसङ्गात्, परन्तु व्यापारवत्कारणत्वादिकं न वा करणत्वेन कारणत्वं मानाभावात्, परन्तु कार्यविशेषं प्रति कारणतावच्छेदकतत्तद्रूपेण । कर्मत्वं च परसमवेत क्रियाफलशालित्वादिकं सम्प्रदानादिकं च विना कार्यसामान्योत्पत्तिस्तवाप्यनुमता निरुतयोश्च करणाधिकरणयोर्व्यतिरेको न कचिदपि कार्येऽस्माकमपौत्याशयवानाशङ्कते ।
-
For Private and Personal Use Only