________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
तत्महकारित्वं यथा दण्डस्य घटे जनयितव्ये तन्तुरिति । व्याप्यवटम्भेनाह । एवमिति। यदि सहकारित्वेनाभिमताः चित्यादयोङ्करे जनयितव्ये बौजेन नापेक्षेरन् तदा ते तत्र सहकारिणो न स्यः रामभवदित्यापादनार्थः । न चेष्टापत्तिः अन्वयव्यतिरेकसिद्धकार्यकारणभावतिरस्कारे तड्यावस्यैव न स्यात् स्थाच कार्यस्याकस्मिकत्वमित्याह । तथा चेति । ततः किमित्यत आह । तथा चेति । किञ्चित्काले ऽसतः किञ्चित्कालसत्त्वं कादाचित्कत्वं सुदृढप्रमाणावतमपि न स्थादित्यर्थः ॥
भगौ० टी० । क्षणिकत्वपक्षे सहकार्यनपेक्षायामपि तैः महार्थः समाज इत्यभ्युपगमे ऽपि महकारिविरहितस्याकरणमित्यत्र सम्प्रतिपत्तिरेव ! तद्राहित्ये स्वस्थाभावादेवाकरणमेतावाँश्च विशेष इत्याह । अत्र चेति । तथापि व्यभिचारशङ्कया प्रमाणसिद्धत्वमेव कथमित्यत आह । विपर्यय इति । एवमप्यकरणमेवेति नियमः कुतस्त्य इत्यत आह । तथाहौति। कारित्वं कार्योपहितत्वं कारणत्वं स्वरूपयोग्यतेति भेदः । तथा चेति । बोजत्वं यद्यङ्कुर कारणावृत्ति स्थाद् बोजमात्रवृत्ति न स्यात् बौजेतराजन्योङ्करो यदि बीजजन्यो न स्यादजन्यः स्थादित्यर्थः ॥
रघु० टौ । तज्जातीयं तद्धर्मावच्छिन्नम् । प्रकरणमखरूपयोग्यं तथात्वं च प्रामाणिकमिति भावः । एवमिति । सहकारिणो यदि तत्कार्यकारणापेक्षौया न स्यः तत्कार्यकारणनि न
For Private and Personal Use Only