________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
कथं तदमिद्धिरित्याह । परेति । स्वतन्त्रेति । तर्कः पराभ्यपगमाधौनप्रवृत्तिर्न तु स्वतन्त्र(माधन)मनुमानमपौत्यर्थः। ननु कुतो व्यवस्थेयमित्याह । यदि चेति ।
‘मोऽपि यावत् परामिद्धः स्वयं सिद्धो विधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया' ॥ इत्यर्थः । महमेति स्वारसिकानभ्युपगमवारणाय, अन्यथाऽपसिद्धान्तापत्तेः । मू.दिति । स्वरूपामिळू स्थादित्यर्थः । नन्वनुमानमपि परमिद्धेन प्रवर्त्तताम्, को दोषः, त्वदनभ्युपगमस्त्वपसिद्धान्तभयादेव वादिना न कर्त्तव्य इत्यत आह । यदि चेति । परोऽपि दर्शने मति दृश्यत्वमभ्युपगच्छेत् न तु तदन्तरेपा दृश्यत्वमात्रमित्यर्थः । तस्येति । दृश्यत्वस्य दर्शनोपहितत्वादित्यर्थः । विस्तर स्त्विति । असन्तोऽचणिकाः क्रमयोगपद्यरहितत्वादित्यत्राश्रयासिद्धिर्बाधो वा, तथाऽऽत्मा नास्त्यनुपलब्धेरित्यत्रापौत्यर्थः ॥
भगौ० टी० । चतुर्थमात्मनि बाधकं दूषयितुमुपन्यस्यति । अस्तु तौति । देहादिभिन्नो नास्त्यात्मा, अनुपलम्भादित्यर्थः । अत्र सर्वचानुपलम्भो विवक्षितः खानुपलम्भो वा। प्राद्ये सर्वत्रेति । यद्यप्यनपलम्भो ज्ञानमात्राभावः स्वरूपमन्नेव हेतुरिति तत्र सन्देहाभिधानं न युक्रम्, तथाप्यात्मा नास्त्यनुपलम्भादित्यनेनैव शब्देन ज्ञानमात्राभावे विरोध इति भावः। अन्ये स्वेति । त्वददृष्टस्थापि वस्तुनः मत्त्वादित्यर्थः । ननु न व्यभिचारः, योग्यतया खानुपलम्भम्य विशेषणवादित्यार। दृश्यत्वेति । त्वया
For Private and Personal Use Only