________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभगवादः ।
७२७
तथा च देहदेहिनः स्वप्रकाशज्ञानस्याहमित्यपलम्भादित्यर्थः । देहदेहिनोदशाविच्छेदेन प्रतीतावपि नाभेद इत्यनैकान्त इत्यर्थः । अनैकान्तिकत्वं परिहरति । न तयोरिति । (त्र)देहदेहिनोदेशाविच्छेदः कुत इत्यत प्राह । देहानुपलम्भेति । देहिनः स्वप्रकाशज्ञानस्याहमित्युपलम्भादित्यर्थः । तुल्यमिति- रूपानुपलम्भेपि शङ्खस्योपस्तम्भमाह । गुणगुणिनोरपि देशाविच्छेदाभावादित्यर्थः । तथापौति । यद्यपि गुणानुपलम्भे गुण्यपलम्भोऽस्ति, तथापि गण्यनुपलम्भे गुणोपलम्भो नास्तीत्यर्थः । तुल्य इत्येव दर्शयति । न हौति । देहानुपस्तम्भेपि देहिनो ज्ञानस्योपलम्भो न पुनर्ज्ञानस्थानुपलम्भे देहस्योपलम्भस्त्वदर्शने वया देहोपलम्भस्य देहिनः स्वप्रकाशकत्वेनोपलम्भनियमस्वौकारादित्यर्थः । महोपलम्भनियम देशाविच्छेदं च हेतुद्वयमभ्युपगम्यान्यथासिद्धिमाह । प्रतीतौति । भेदे मत्यपि देहमत्त्वमन्यथोपपत्रमित्यर्थः । तदपलम्भ इति । रूपाग्रहणेपि नवग्रहणं शङ्खाभिधानेपि तद्रूपाद्यनभिधानं शङ्खनिषेधेपि तद्रपाद्यनिषेध इति भेदे मत्येवोपपद्यत इत्यर्थः । ननु यत्र यत्र गुणानुपलम्भे गुण्युपलम्भस्त्वयोच्यते तत्र गणो शङ्खो न भामत एव, किं नाम ? प्रशङ्ख व्यारत्तिमात्रमन्यत्र तु महोपलम्भनियम एवातो न गुणागुणिनोभेद इत्यत आह । नौलमिति । पूर्वक इति । विधिरूपगुणस्यापोहवादनिराकरणावमरे ममर्थितत्वादित्यर्थः । यद्दा नौलमुत्पन्नं चलतौति गुणजातिक्रियासामानाधिकरण्यं प्रतीयते, नच ममानाधिकरणं द्रव्यमेव, न चात्रानौलादिव्यावृत्तिमात्र
For Private and Personal Use Only