________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटौके
निश्चयस्तु तस्यापि परत एवेति न्यायसम्प्रदायः। इत एव विशेषात्ताहशस्य स्वत एवेति तात्पर्याचार्याः । ___शङ्क० टी० । तत्रापौति । तज्जातीयत्वेन लिङ्गेन प्रामाण्यग्रहेऽपौत्यर्थः । न तावदिति । दृष्टान्तीभूतं यत्प्राकनं पृथिवौत्वप्रकारकं ज्ञानं तस्यापौदानौमेव प्रामाण्य पाह्य मेवं तत्र तत्रापौत्यनवम्था तावन्न भवति, प्रागे व तत्प्रामाण्यग्रहादित्यर्थः । ननु तज्जातीयत्वादिना लिङ्गेन याऽनुमितिरिदानौमुत्पद्यते सापि ग्रहौतप्रामाण्या परप्रामाण्यं निश्चाययत्येव, मापि मापौति फलद्वारिकाऽनवस्था स्यादित्यत प्राह । फलद्वारिकेति । प्रामाण्य - स्थावण्य जेयत्वानभ्युपगमादेव नेथमनवम्थेत्यर्थः । यथेति । न हि ग्टहीतप्रामाण्यमेव ज्ञानमर्थनिश्चायकम्, तथा मति प्रथममर्थनिश्चयोपि न स्यादिति भावः । धर्मोति । पक्षजान लिङ्गज्ञानद्वारिकेत्यर्थः । अनवस्थामेव स्फोरयति । ताभ्यामिति । द्वैताभावादिति । प्रामाण्यानुमितौ धर्मि तावतानमेव, तद्विषयं च ज्ञानमनुव्यवसायरूपं, तत्र च देतं प्रामाण्याप्रामाण्योभयरूपत्वं तच नास्ति, अनुव्यवमायस्य प्रामाण्यैकनियतत्वात्तत्राप्रामाण्य
कानुदयान्न तत्रापि प्रामाण्यग्रहापेक्षेत्यर्थः । तहि धर्मिज्ञानं लिङ्गज्ञानं वा न क्वापि परीक्ष्येतेत्यत प्राह । यत्र होति । तदेकनियतम् प्रामाण्यकनियतम्। तावतैव अग्टहीतप्रामाण्यज्ञानमात्रेणैव। कुत एतदित्यत पाह। तदाभासे ति। द्वैताभावादिति साहव्याख्यानमुपसंहरति । एककोटौति । नन्वेवमनुव्यतमायप्रामाण्ये स्वतस्त्वं ममायातमित्यपसिद्धान्त इत्यत आह ।
For Private and Personal Use Only