________________
Shri Mahavir Jain Aradhana Kendra
પૂo
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
जातिभेदः कुद्रपत्वं तद्रूपस्तत्स्वरूपः तत्रिरूप्यस्तदभावश्च जातिभेदस्याभिधानात् तदभावोप्यर्थतो लब्ध इत्यन्ये । न पश्याम इति सन्देहेऽपि न परिशेषावकाश इत्यभिप्रायेण । तथापीति । स्वोत्पत्त्यव्यवहितोत्तर ममयवृत्तिकार्यमात्रकारित्वं स्वकार्यव्यवहितप्राक्कालावृत्तित्वं स्वकार्य प्रागभावममानकालीनध्वंम प्रतियोगिममयावृत्तित्वं खोत्पत्तिममय एवं कारित्वं वाऽक्षेपकारित्वम् । तथा च पूर्व कार्यानुत्पादात् तदानीन्तनानामचेपकर एस्वभावस्य विरहेण बौजत्वस्य तन्नियामकत्वानुपपत्त्या तत्रियामकं कुर्वद्रूपत्वं नाम जात्यन्तरमास्थेयमिति भावः । तादृशस्वभावत्वसिद्धौ मत्यामेवमेतत् तदेव त्वमिद्धमित्याह । युक्तमित्यादिना । प्रमङ्गेति । यत्र यत्कार्याक्षेपकारि तत्र तत्कारि यथाऽलोकं शिलाशकलं वा नाङ्कराक्षेपकारि च सामग्रीममवहितं बौजमुपेयते परैरिति प्रसङ्गः यद्य - दङ्कुरं करोति तत् तदपकारि यथा धरण्यादिभेदः करोति चारमिदं बौज मिति विपर्ययः । परस्परेति । चक्रकेऽपि परस्पराश्रयत्वमचतम् ॥
स्यादेतत् । कार्यजन्मैव अस्मिन्नर्थे प्रमाणं विलम्ब - कारिस्वभावानुवृत्तौ कार्यानुत्पत्तिः सर्वदेति चेत् । न विलम्बकारि स्वभावस्य सर्वदैवाकरणे तत्त्वव्याघातात् । ततश्च विलम्बका रौत्यस्य यावत्सहकार्य सन्निधानं तावन्न करोतौत्यर्थः । एवं च कार्यजन्म सामग्यां प्रमाणयितुं शक्यते न तु जातिभेदे । ते तु किं यथानुभवं विलम्ब -
For Private and Personal Use Only