________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
आत्मतत्त्वविवेके सटीके
मतो ज्ञानान्तरविषयतयैव तस्य व्यवहर्त्तव्यत्वोपपत्तेः। स्व ग्राहकेण बेति द्वितीय पक्षं दूषयति। नापौति। स्वग्राहकेणानुव्यवमायेन प्राकव्यलिङ्गेन देत्यर्थः । विवेचनेति । अप्रामाण्यव्यावृत्तप्रामाण्यग्रहानुपपरित्यर्थः । अप्रामाण्य शङ्काकलङ्काभावो वा विवेचनम् तथा च प्राकट्येन लिङ्गेनानुव्यवसायेन वा जायमानं निष्कम्पप्रवृत्तिजनकं न स्यादित्यर्थः । ननु प्रामाण्योपहितजानग्रहः प्रमाणमेव, तथा च कथं न ममाश्वाम इत्यत पाह। न हौति । ग्टहीतप्रामाण्यमेव ज्ञानं प्रवर्तकमित्यभिप्रेत्याह । अन्यथेति ॥
भगौ० टौ० । ननु वर्त्तमानं खजानं न मानसम्, किन्त स्वयमेव स्वव्यवहारजनकम, स्वस्मिन सत्येव स्व व्यवहारात्, न तु जानान्तरमपेक्षते, तदन्वयव्यतिरेकानुविधानात्, ज्ञानान्तराभावदशायां स्वभावादेव स्वव्यवहाराभावात्, खत एव स्वव्यवहारोपपत्तौ ज्ञानान्तरकन्यने गौरवाच्च, इच्छादिव्यवहारे ज्ञानान्तरापेक्षाऽस्तु, व्यवहारस्य ज्ञानजन्यत्वात् । न च ज्ञानमाचं न ज्ञानव्यवहार हेतुरपि तु व्यवहर्त्तव्यविषयमिति ज्ञानव्यवहारोपि तद्विषयकज्ञानान्तरादिति वाच्यम् । स्वस्यैव स्वविषयकत्वात्, यड्यवहारानुकूल शक्रियुक्तं यज्ञानं तस्यैव तद्विषयकत्वात् । न । व्यवहर्त्तव्यभिन्नजानत्वेन व्यवहार हेतुत्वं, गौरवादिति । ___ मैवम् । स्वजनकेन्द्रियप्रत्यासत्यनाश्रयत्वेन स्वस्थ खानाश्रयात्, विषयत्वनियामकस्यन्द्रियमनिकर्षादेरभावे स्वविषयत्वानुपपत्तेः, कारण विना कार्यानुत्पादात्, प्रत्यक्षाजन्यस्य प्रत्यक्षविषयत्वा
For Private and Personal Use Only