________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६८५
इतत्वाद्वेति । निश्चयवदिति । यथा संशयव्यावृत्तेन निश्वयत्वे - नानिश्चितोपि निश्चयो निश्चयकार्यं करोति ताद्रूष्यस्य यदा कादाचित्कज्ञानान्तरमिद्भूतया वास्तवत्वात्, तथोपलम्भोपि तथात्वेनाग्टहौतः स्वकार्यं कुर्यादेवेत्यर्थः । स्वात्मनि निश्चयत्वविशिष्टे स्वस्मिन् ॥
च्चिदादिवदिति तु दृष्टान्तमाचेण नास्मदवधानम् । ज्ञानं न ज्ञानान्तरकर्म, तज्जातीयक्रियात्वात्, या यज्जातीया क्रिया नासौ तत्क्रियाकर्म, यथा च्छिदा च्छिदान्तरस्येति तु न्यायविप्लवः । छिदावत् सर्वथा सजातीयाकर्मत्वे साध्ये बाधितविषयत्वात्, पुरुषान्तरज्ञानस्य च पुरुषान्तरज्ञानवेद्यत्वात्, स्वयमपि स्मृत्यादिगोचरत्वाच्च । स्वकर्मत्वे साध्ये दृष्टान्तस्य साध्यविकलता हेतोर्विरुद्धत्वादिति ।
शङ्क० टी० । दृष्टान्तमात्र इति । हेतुविनाकृतस्य तस्यातन्त्रत्वादित्यर्थः । हेतु पहत ( ( ) माशङ्क्य निराचष्टे । ज्ञानमिति । अत्र बाधमाह । न्यायविशव इति । तदेव स्फुटयति । सर्वथेति । सजातीयाकर्मत्वं मजातौयाविषयत्वम् । पूर्वकमपि कर्मपदं विषयपरम् । ननु तज्ज्ञानं तज्ज्ञानविषयः, क्रियात्वात् श्राह । स्व कर्मत्व
च्चिदावदित्यनुमानं
स्यादित्यत
(१) हेतूपक्रममाशङ्केति २ पु० पा०
For Private and Personal Use Only