________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८४
आत्मतत्त्वविवेके सटौके
__ भगौ० टौ । ननु यापलम्भो नोपलभ्येत तदाऽर्थोपलम्भस्याप्यभावः स्यात् । न च स्वप्रकाशतया तदेव तत्र मानमित्यत पाह। न चैवमिति । ग्राह्यज्ञानभित्रस्य ग्राहक ज्ञानस्यामत्त्वात् कथं पूर्वप्रत्यक्षमित्यर्थः । उपलम्भादृष्टाविति । निष्पद्यमानाज्ञाने निष्पत्तेरज्ञानादित्यर्थः । मा भूदिति । ज्ञानस्याव्यवहारेपि खरूपमतो ज्ञानादेवार्थस्य व्यवहारो भविष्यतीत्यर्थः । वस्तुतस्तत्र खज्ञानाभावेपीश्वरज्ञानमत्येवेति भावः। अवश्यवेद्येति । ननु संयुक्तसमवायेन मनोवेद्यत्वादपेक्षणौ यान्तराभावाच्चोत्यन्नैव कुतो नावश्यवेद्या स्यात् । मैवम् । सुखादितइयादिमामय्या प्रतिबन्धात् विषयान्तरमञ्चारदर्शनेन तस्या बलवत्त्वात् । ज्ञानेपि विशेषगुणात्वेनोद्भवत्वमिति तदभावाद्वा । अन्यथा स्वप्रकाशत्वानुमितेरपि स्वप्रकाशवमनुमित्यन्तरगम्यमिति स्वप्रकाशत्वानुमिति-- परम्परयाऽनवस्था तवापि स्यात् । अथ या वित्तिर्न मानान्तरवेद्या मा प्रमाणाभावादसतौति तदधौनमत्त्वस्य विषयपर्यन्तस्थामत्त्वं स्यात् । न। कामाञ्चिद्धौनां स्मरणादिना लिङ्गेन विशेषतः कामाञ्चित्तु ज्ञानत्वेन सामान्यलक्षणया प्रत्यासत्या ज्ञानात् प्रमेयमित्यादिवेदने च भानाचेति भावः ॥
रघु० टी० । न चैवम् । न चोपलम्भस्यानुपलम्भे परेणेत्यादिनाऽऽपादितमनवस्थानं निरस्यति । न चेति । अवश्येति । वित्ति: लौकिकः साक्षात्कारः । मत्यपौन्द्रियमन्निकर्षादौ ज्ञानस्य कस्यचिदग्रहणं विषयान्तरसञ्चारादिना प्रतिरोधाद्रपादिवदनु
For Private and Personal Use Only