________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रघु० टौ। क्षणभङ्गेपि हि विशिष्टस्याजनकाशावृत्तस्योत्पादो वक्रव्यः, व्यावृत्तिश्च जातिभेदरूपो जातिमङ्करप्रसङ्गादेवासम्भवौ, व्यक्तिभेदरूपस्तु नानुगतकार्यप्रयोजक इत्याह । अस्तु वेति ॥
भवतु वा जातिविशेषोपि, तथापि स्थलत्वमेवैन्द्रियकत्वं प्रति (१)प्रयोजकं मन्तव्यम्। अन्यथा स्थूलतामनामवन्नेकोऽपि परमाणुः कदापि तथोत्पन्नः प्रत्यक्षतामियात्। नियमेन तु तद्विपरीतस्य प्रत्यक्षता (२)तथाविधस्याप्रत्यक्षतायामेव विश्राम्यति, अन्वयव्यतिरेक रेफलत्वाद्धेतुफलभावस्य ।
शाङ्क ० टौ। ननु वैजात्यमेव तथोत्पादप्रयोजकमिति कुतोऽयमनियम इत्यत श्राह। भवतु वेति । अन्वयव्यतिरेकाभ्यां स्थौल्यम्य परिमाणविशेषम्य प्रत्यक्षज्ञानकारणत्वावधारणादिति मञ्चितानामपि कचित्प्रत्यक्षत्वं न स्यादित्यर्थः ॥
भगौ० टौ। मत्यपि जातिविशेष अन्वयव्यतिरेकाभ्यां स्थौल्यमेव तन्त्रम्, तच्च न परमाणषु प्रत्येक मिलि तेषु वेति कथ प्रत्यक्षत्वमित्याह । भवतु वेति । अन्वयव्यतिरेका वेवाह । अन्यथेति । यदि कुर्वद्रपत्वमेव तत्प्रयोजकमित्यर्थः ॥
(१) प्रयोजकमास्थयम् इति १ पु० या० ।। (२) तथाविधस्य प्रत्यक्षतामिति १ पु० पा० । (३) अन्वयव्यतिरेकगम्यत्वाद्धतुफलभावम्येति १ पु० पा० .
For Private and Personal Use Only