________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६४५
भगौ० टौ. । प्रतिभामधर्मः स्थौल्य बाह्ये भासत इत्यपि नास्ति, बाह्यत्तितयाऽनुभूयमाने तत्र बाधकाभावादित्याह । एतेनेति । न चैकार्थक्रियाकारित्वौपाधिकमेकत्वम्, तदजानेप्येकप्रतीतेः ॥
रघ. टौ । विकल्पेनोलिखितं स्थौल्यादि परमाणवारोप्यत इत्यपि बाधकाभावादिना निरस्तमित्याह । एतेनेति । बौद्धो बुद्धिधर्मः । बास्तवो बाह्यान्तरधर्मः । बौद्धः माम्वृत इत्यन्ये ॥
अतौन्द्रियाश्च प्रत्येकमणवः कथं मिलिता अपि दृश्येरन, अतौन्द्रियसमूहस्याप्यतौन्द्रियत्वात् । विशिष्टोत्पादादैन्द्रियकत्वमिति चेत्, किमद्यापि स्वप्ने हस्तं प्रसारयसि।
शङ्क० टौ । पूर्व परमाणसमूहस्य प्रत्यक्षतामुपगम्योकमिदानौं तदपि नास्तोत्याह । अतीन्द्रिया इति । विशिष्टोत्पादादिति । इन्द्रियग्रहणयोग्योत्पादादित्यर्थः । विशिष्टोत्पादे क्षणभङ्गो मुन्नम्, म च निराकृत एवेत्याह । किमद्यापोति ॥
भगौ० टौ० । दूषणान्तरमाह। अतीन्द्रियाश्चेति । नन्वमिलितानामपि तेषामतौन्द्रियत्वे केषाञ्चित्माक्षाद्विषयोभूयो
For Private and Personal Use Only