SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः। ६३६ विकल्पः । निश्चयस्योपलवे परम्परयापि विषयानधौनत्वे । तस्य निर्विकल्पकस्य उपलवानियतविषयत्वासिद्धेः ॥ न च परमाणव एव स्थूलाः, तत्त्वव्याघातात् । न च तत्समुदायस्तथा, तस्य समुदितस्थानस्य त्वयाऽनभ्युपगमात् , अभ्युपगमे वाऽवयविना किमपराकम् । न च समुदिता एव तथा प्रतिभासितुमर्हन्ति, तेषां) प्रत्येकमस्थूलत्वात् । न च नानादिग्देशव्यापितैव स्थौल्यम्, परमाणुषु प्रत्येकमसम्भवात्। न च नानात्वैकार्थसमवायिन्येव सा स्थौल्यमिति साम्प्रतम्, स्थूल एक इति प्रत्ययनियमात् । शङ्क• टौ० । तत्त्वव्याघातात् परमाणुत्वव्याघातादित्यर्थः । अभ्युपगम इति । समुदायस्यैव व्यामज्यवृत्तिताभ्युपगमादित्यर्थः । ममुदिता एवेति । परमाणव इत्यर्थः । ननु स्थौल्यं न परिमाणविशेषः, किन्तु परमाणनामेव नानादिग्देशव्यापिता सैव स्थौल्यमित्यत आह । न चेति । मापि प्रत्येकं परमाणनां न सम्भवतीत्यर्थः। मेति । नानादिग्देशव्यापितेत्यर्थः । स्थल इति । तथा मत्येकत्वमामानाधिकरण्यानुपपत्तिरित्यर्थः ॥ (१) तेषामस्थूलत्वादिति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy