________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५८
श्राह । अनावरणेति । श्रवयविग्रहे तत्परिमाणग्रपि तद्गतजातिविशेषस्य तावदवयवग्रहव्यङ्ग्यतया तदभावादेवाग्रह दत्यर्थः । ननु किं तावत्त्वं यावत्त्वं बहुत्वं वा । नाद्योऽसम्भवात्, अर्वाग्भागव्यवधाने मध्यपरभागयोरग्रहात् । नान्त्यः, नानास्यानेषु परमाणु मात्रान्तरितस्याप्यवयविनः स्थौल्योपलम्भापातात् । न । मन्निकर्षविशेषस्य कार्यदर्शन कल्प्यत्वात् ॥
रघु० टौ० । एतेन कस्यचिदवयवस्यावरणेप्यवयविनस्तदभावेन । तथाविधेति । तादृशजातिविशेषविशिष्टेत्यर्थः । तदुपलम्भेपि परिमाणोपलम्भेपि ॥
एतेन कम्पाकम्पसंसर्गो निरस्तः । मामग्रीभेदेनावयवनियतकम्पोत्पादे तस्यां दशायामवयविनो निश्चलत्वात् । एवं तर्हि कम्पाकम्पयोरवयवयोर्विभागात् संयोगनाशे द्रव्यनाशः स्यादिति चेत । ततः किम् । अपसिद्धान्त इति चेन्न । एवमपि क्वचिदभ्युपगमात्। सर्वत्रैवं प्रसङ्ग इति चेत्, तथाप्यवयविनः किमत्याहितम् । न चैवमपि । कर्मणो द्रव्यारम्भकमंयोगप्रतिद्वन्दिविभागजनननियमानभ्युपगमात् ।
कारणविशेषात् कस्यचिदेव कर्मणस्तथाभृतविशेपोपलब्धः ।
For Private and Personal Use Only