________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
યૂપૂe
यात्मतत्त्वविवेक सटौके
शङ्क० टौ । मिथो विरोधमाह। यथा हौति । तथेति । वहिमत्तयेत्यर्थः । एकामामतायां हेतमाह । तयोरिति । अन्यथा वस्तुदैरूप्यतापत्तेरिति भावः । दृष्टान्ने विरोधमुक्का दार्शन्तिके तमाह । तथेति । विरोधमेवोपपादयति । न हौति ॥
शिथिलमूलाश्चैते प्रतिबन्धस्यासिद्धेः। सिद्धौ वा व्याप्यव्यापकतदधिकरणानां सिद्धौ विवादनिवृत्तः ।
शङ्क० टौ० शिथिलेति । पराभ्यपगममनुरुध्य, अन्यथा न परानपेक्षं न व्यापकमित्यनयोर्व्याप्तिमत्त्वात् सर्वोपग्रहो मन्दः स्यात् । पराभ्यपगममेव म्फटयति । मिद्धौ वेति । विवादति । व्याप्यादिमिद्धेरेव शून्यताद्यनुपपत्तेरित्यर्थः ।
भगौ० टी० । विवादेति । व्याप्यादीनामेव वस्तुत्वे सर्वामियभावादित्यर्थः ।
इष्टापादनं च प्रथमे, अनुभूतावसिते स्थूले विरुवधर्मासंसर्गस्येष्टत्वात् । तथा च वक्ष्यामः ।
शङ्क० टी० । प्रथम इति । नेदं स्थलमित्यत्र ॥
भगौ० टौ. । अनुभूतेति । पूर्वमनुभृते निर्विकल्पक विषयौकृते पश्चादवसिते मविकल्पकविषय इत्यर्थः । वक्ष्यामः विरुद्धधर्मासंसर्गमिति शेषः ॥
For Private and Personal Use Only