________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५१८
कारित्वमित्यर्थः । तेनेति पूर्वपक्षिणो वचनम् । अनेनेति सिद्धान्तिनः । विषयौति । श्रनेनेदं विषय कृतमिति धौबलादतिरिक्तं विषयत्वमङ्गौ कार्यमित्यर्थः । क्रियत इति मिद्धान्तिनो वचनम् । कार्येति पूर्वपचिणः । तदीयतयेति सिद्धान्तिनः ॥
०
रघु० टौ । फलम् प्रयोज्यम् । प्रश्नप्रसङ्गपीति । कार्याननुगुणत्वेपि सत्त्वाविरोधादिति हृद्यम् ॥
अतण्व कार्यकारणभावोऽप्युपेक्षितव्य इति तु महत्साहसम्, तथा सति हि स्यादेव न स्यादेवेत्याद्यापद्येत, तथा च प्रकाशतमसोरन्यतरस्य कौटस्थ्यप्रसङ्गः । सांवृतोऽस्त्विति चेत्, विषयविषयिभावोऽप्येवमस्तु, यदि विषय कार्ययोर्बलवतौ बाधेति सांवृतः नोचेदेवमिति इयौ गतिः ।
शङ्क० टौ० । उपकाराधानेऽनवस्था तदनाधाने च साधारमित्येतस्मादेव दोषात् कार्यकारणभाव एव वयं विप्रतिपद्यामहे, किं तदृष्टान्तेन विषयविषयिभावसाधनमित्याशङ्क्याह ।
अत एवेति । माहममेव दर्शयति । तथा मतीति । स्यादेवेति । नित्यं स्यादित्यर्थः । न देवेति । अलोकं स्यादित्यर्थः । कारणराहित्यम्य नित्यत्वा लौकत्वान्यतरव्याप्यत्वादन्यतरापादनम्, यथा देवदत्तस्य ग्टहामत्त्वं मरणान्यत्रमत्त्वान्यतरव्याप्यत्वादन्यतरा
For Private and Personal Use Only