________________
Shri Mahavir Jain Aradhana Kendra
५१२
www.kobatirth.org
आत्मतत्त्वविवेके सीके
Acharya Shri Kailassagarsuri Gyanmandir
विच्छादिव्यावर्त्तनार्थम् । जनकज्ञानविषयोपाधिकत्वेनैव मविष
यकत्वव्यवहारोपपत्तेः ।
ननु किमत्र नियामकम्, वैपरीत्यस्यापि सुवचत्वात् । अथ नमविषयकम्, किन्तु किञ्चिदेवेत्यत्र नियामकं नात्मधर्मत्वम्, श्रदृष्टेऽतिव्याप्तः, तदज्ञानेपि तथाव्यवहाराच्च, किन्तु ज्ञानत्वम्, इच्छादौ तदौपाधिकम्, न तु वैपरीत्यम्, ज्ञाने तदमम्भवात्, उपाधित्वेनाभिमतानामिच्छादीनामग्रेतनत्वात् तेषां विषयप्रतिनियमे ज्ञानविषयत्वस्यैव नियामकत्वाच्च, उपेक्षाज्ञाने तदसम्भवाच्च, अत एव ज्ञानत्वनिबन्धन एव विषयतानुगम इति न तदर्थ - मतिरिक्तविषयताऽभ्युपगम्यते । मेवम् । किं ज्ञानविषयतेव तज्जन्येच्छाविषयता, किं वा तद्विषयक ज्ञानजन्यत्वमेवेच्छायास्तद्विषयत्वम् । नाद्यः, ज्ञाननाशे मति इच्छाया निर्विषयतापत्तेः । नान्यः, ज्ञानानवगमेष्यवगम्यमानत्वात्, जनक ज्ञानम्या नियत विषयravौच्छाया नियतविषयत्वाच्च ।
अत्राहुः । यथा घटादिना स्वसम्बन्धे ममवायस्याभेदेनैव सम्बन्धरूपत्वम्, रूपादिसम्बन्धे तु तत्त्वेन, तथा ज्ञानस्यापि घटादिना स्वसम्बन्धे स्वसम्बन्धरूपत्वमभेदेन, इच्छादिमम्बन्धरूपत्वन्तु भेदेन । मम्वयं पौर्वापर्यमम्बन्धोऽनुगतधर्मगर्भो न घटेच्छात्वादिकं जातिरस्ति, घटगोचरेच्छात्वादिनैव तत्त्वेऽन्योन्याश्रय इति चेन्न न होच्छा कारणत्वमेव ज्ञानस्येच्छा सम्बन्धरूपत्वम्, किन्तु ज्ञानस्वरूपमेव तथा, नियामको हि जन्यजनकभाव: संस्कारवत् । न चैवं जनकज्ञानोपगमे सम्न्नपि प्रयत्नो
For Private and Personal Use Only