________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
आत्मतत्त्वविवेके सटौके
___ सामासामर्थ्यलक्षणविरुद्धधर्मसंसर्गेण भेदसिद्धौ तसिद्धिरिति चेत् । न विरुद्धधर्मसंसर्गासिद्धेः । प्रसङ्गविपर्ययाभ्यां तत्सिविरिति चेत् । न सामर्थ्य हि करणत्वर) वा योग्यता वा। नाद्यः साध्याविशिष्टत्वप्रसङ्गात्। व्यावृत्तिभेदादयमदोष इति चेत्। न तदनुपपत्तेः । व्यावत्यभेदेन विरोधो हि तन्गलम् ॥
शङ्क० टौ। सामर्थ्यति । प्रतिक्षणं क्वचित् सामर्थ्य क्वचिदसामर्थमिति विरुद्धधर्माध्यामात् चणिकत्वसिद्धौ व्याप्तेः सिद्धिरित्यर्थः । यद्यपि विरुद्धधर्माध्यस्तत्वादेव भेदसिद्धिरिति मत्त्वहेतोवैयर्थ तथापि ततो भेदमात्रमनेन तु चणिकत्वमिति प्रकारभेद इति भावः। विरुद्धेति । स्वरूपचोग्यत्वस्वरूपायोग्यत्वयोर्ययोर्विरोध. स्तयोः संसर्ग एव नास्ति संसृष्टत्वेनानुभूयमानकारित्वाकारित्वयोः साहित्यासाहित्ययोस्तु न विरोध इत्यर्थः । प्रसङ्गेति । प्रसङ्गाभ्यां विपर्ययाभ्यां चेत्यर्थः। तथाहि कुशूलस्थं बीजं यद्यङ्करसमर्थ स्यादङ्करं कुर्यात् न च करोति तस्मान्न समयमेवं क्षेत्रपतितं यद्यसमर्थ स्थान्न कुर्यात् करोति च तस्मानासमर्थमिति प्रसङ्गाभ्यां विपर्ययाभ्यां च कुशलस्थक्षेत्रपतितबीजयोर्भेदः। तथा च क्षणिकत्वमेव पर्यवस्येदिति भावः। समर्थस्य पायोगादिति
(१) प्रसङ्गतविपर्ययाभ्यां--पा० १ पु० । (२) करवा -पा० १ पु० ।
For Private and Personal Use Only