________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणाभावादः।
३३
नामन्यशब्दे अंशतः सिद्धसाधनवारणाय विवादेति । स्वरूपकथनमाचं वा । यद्दा एतत्क्षणवृत्तयः एतत्क्षणाव्यवहितोत्तरसमयवृत्तिध्वंसप्रतियोगिनो न वेति विप्रतिपत्तिः । विधिकोटिः परेषाम् । निषेधकोटिश्च नैयायिकानाम्। पक्षतावच्छेदकावच्छेदेन विधेस्तत्मामानाधिकरण्येन निषेधस्य सिद्वेरुद्देश्यतया नांशतः सिद्धमाधनबाधौ। मूले यत् मदित्यत्र मदित्यस्य एतत्क्षणे सदित्यर्थः । चणिकत्वं च एतत्क्षणाव्यवहितोत्तरममयवृत्तिध्वंसप्रतियोगित्वम् । दृष्टान्ते च घटपदम् एतत्क्षणाव्यवहितोत्तरसमयोत्पत्तिकध्वंसप्रतियोगिघटपरम्। नातः प्रसाध्याङ्गता। पचतावच्छेदकमपि शब्दादित्वम् एतत्क्षणवृत्तित्व विवादाध्यासित इति स्वरूपकथनमिति प्राहुः। तदमत् मूलस्य उदक्षरतापत्तेः। प्रतिबन्धामिद्धेरिति । प्रतिबन्धो व्याप्तिः तदमिद्धेरित्यर्थः । न च ध्वंसस्य प्रतियोगिमात्रमेव हेतुः समवायिकारणनाशादेहेत्वन्तरस्य कल्पने ऽतिगौरवात्(१) । तथा च तत्क्षणे मतो भावस्थ तदव्यवहितोत्तरक्षणे विनाशस्यावश्यकतया प्रतिबन्धमिद्धिरिति वाच्यम्। अप्रामाणिकानन्तक्षणिकघटादितनाशतद्विशेषहेतुहेतुमद्भावानां क्षणिकपूर्वपूर्वघटादिव्यक्तः क्षणिकोत्तरोत्तरघटादिव्यक्ति प्रति हेतुहेतुमद्भावानां च कल्पमामपेक्ष्य समवायिकारणनाशादेहेतुत्वकल्पनाया एव लघुत्वादिति भावः । यहा घटस्य प्रसाध्याङ्गकदृष्टान्ततया अन्वयसहचारनिश्चयाभावेन व्याप्यनिश्चयादिति भावः ।।
(१) अस्य गौरवात्-पा० १ पु० ।
For Private and Personal Use Only