SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir श्राह । विज्ञानस्यापीति । तथा च त्वदनुमतं चित्राद्वैनमनुपपन्न मिति भावः ॥ ४६३ भगौ० टी० । कथमिति । श्रकाराकारिणोरभेदादित्यर्थः । अस्त्विति । विकल्पाकारस्य भेदस्य विकल्पाभिन्नतया भेदः बन्नेव, न त्वलोक इत्यर्थः । ययोर्भेदो विकल्पविषयस्तद्वयं यदि न विकल्पविषयस्तत्राह । श्रयेति । प्रतियोग्यनुयोगिनोरज्ञानाद्भेदज्ञानाभावादित्यर्थः । तदुभयग्रहणपचे दोषमाह । श्राकारेति । एकस्य विकल्पस्य विरुद्धाकारद्वयानात्मकत्वादित्यर्थः । चित्रत्वं यद्येकाने कोभयात्मकत्वं तदा विरोध एव । अथ ज्ञानवृत्तिजतिस्तद्विशिष्टज्ञानाद्भेदव्यवहारः, तत्राह । चित्रमपीति । चित्रत्वजातिविशिष्टमपौत्यर्थः । तवेत्यनादरे षष्ठी । विकल्प्य दूषणमाह । अनेकत्व इति । श्रथ तदाकारं ज्ञानमपि नैकं, तचाह । विज्ञानस्येति । मिथो विरुद्धानेकाकारावगाहित्वा चित्रत्वं तचेत्यर्थः । एकत्व इति विज्ञानस्येत्यनुषज्यते, एकस्य भिनाकारतादाम्याभावादित्यर्थः ॥ 1 For Private and Personal Use Only रघु० टौ० स्थादेतत् । विकल्पोलिखितो भेदो यदि ततो भिद्येत, तदा देश्येताप्यन्येनान्यस्य ग्रहणम्, न त्वेतदस्ति, किं तु विकल्पाकार एव न चाकार श्राकारिणो भिद्यत इत्याशङ्कते । भेदोपौति । श्रपिशब्दात्रीलादिरपि । तथा च ज्ञानाकारयोरेव नौलपौ तयोजनाकारो भेदो विकल्पेनोलिखित इति न बाह्यमम्बेदनसङ्कथापौति भावः । श्रयदर्शि नौलपौताद्याकारद्वयादर्शि ।
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy