________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
.
परस्पराभावव्याप्यत्वमात्ररूपत्वात् ।
मात्रशरौरत्वात्. बाह्यानां बाह्यविज्ञानयोर्विज्ञानानां च भेदविरहेऽद्वैतमतावलम्बनम्, न च विना भेदाम्युपगमं विचारारम्भसम्भवत्य व्यक्तौ भविष्यति । तत्सिद्धिरेव विरोधसिद्धिरेव भेदसिद्धिस्वत्पर्यवसायिनौ वा ॥
४४१
यस्तु बाह्ये विरोधपरिपालनाय विशेषो दर्शितः स तेषामेवास्तु | यदि हि विरुद्धधर्माध्यासस्य भेदसाधकत्वं प्रति समाश्वासः, किमर्थक्रियाप्रतिनियमोपन्यासेन । न चेत्, तथापि किं तेन, सोपि क्रिययोर्विरुद्धधर्माध्यासेन भेदे सति स्यात् ।
अन्यथा
• टॉ• । नन्वर्थक्रियाप्रतिनियमः प्रवृत्तिनियम बाह्य भेदक : स च ज्ञाने नास्तौति ज्ञानं कथं भिद्यतामत श्राह । यस्त्विति । बाह्येपि तयोर्भेदकत्वं विरोधाधीनं, स चेद्विरोधो ज्ञानप्यस्ति तदा तदपि भिद्येतैव, अन्यथा श्रर्थक्रियाणां प्रवृत्तीनाञ्च भेदो न स्याद्यतो बाह्यं भिद्येतेत्यर्थः । विशेष इति । अर्थक्रियाप्रतिनियमरूप इत्यर्थः । स तेषामिति । अर्थक्रियाप्रतिनियमेन बाह्यानामेव भेदोऽस्त्विति । यदि हौति । तदयं समुदायार्थः, विरुद्धधर्माध्यासो भेदको न वा, प्रथमे ज्ञानमपि नौलधवलाकारं ततो भिद्येत । श्रन्येऽर्थक्रियाभेदोपि न स्यान स्याच्च तदधौनो बाह्यभेदः । किमर्थेति । तदन्तरेणापि विरुद्ध
56
For Private and Personal Use Only