________________
Shri Mahavir Jain Aradhana Kendra
४०४
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
दिहापि तन्निरमनौयं न कार्त्स्न्येन वर्त्तते नैकदेशेन किन्तु स्वरूपेणेत्यर्थः । ननु जायमानपिण्डसम्बन्धः प्रकारत्रयेण सम्भवति । पिण्डान्तराद्गोत्वस्य गमनादा पूर्वमेव तत्सत्त्वाद्वा पिण्डेन मह जायमानत्वाद्वा । तदेतत् त्रयमप्यनुपपन्नमित्याह । जायमानेति । श्रप्रतिसङ्क्रमात् श्रगमनात् । गोत्वप्रमङ्गादिति । तथा च तदनुभवव्यवहारयोः प्रसङ्गादित्यर्थः । समवायवृत्त्या तत्सत्त्वं व्यवहारे तन्त्रं न तु स्वरूपतोऽपीति भावः । यदि समवायेनाकाशादौ गोलं स्यात्तदा पश्चादपि स्यान्न चैवमित्याह । न चैतदिति । सम्बध्यते समवैतीत्यर्थः । जातेपि तत्र पिण्ड़े गोत्वमाकाशा सम्बन्ध्ये वेत्यर्थः । तर्हि पिण्डेनापि तत्र न सम्बध्येतेत्याह । येन यति । तत्र जातः सम्बन्धश्चेत्येक एव काल इति पिण्डेन कदाचिदपि न तस्यासम्बन्ध इत्यर्थः । कुतो विरोध इति । पिण्डोत्पत्तेः पूर्वमाकाशादौ गोत्वं नामौदुत्पन्ने च पिण्डे तत्र गोल्लमिति विरोधो न सम्भवतीत्यर्थः ॥
भगौ० टी० । द्वितीयं बाधकं कात्स्यैकदेशविकल्प न विरुद्धधर्माध्यासरूपम् । श्रवयविस्थापनात्रसर एव दृष्यत्वादित्यर्थः । ननु जायमान पिण्डे गोत्वं न गवा सम्बध्यते तस्य निष्क्रियत्वात् । नापि तद्देशे जातिः स्थिता तस्यापि गोत्वापत्तेः । नापि पिण्डेन सम्बद्वेवोत्पद्यते नित्यत्वादिति सम्बन्धव्यापकचयव्यावृत्तौ सम्बन्धोऽनुपपन्न दूत्याह । जायमानेति । श्राकाशादिदेशेनासम्बद्धमेव स्वरूपसत् सामान्यं व्यक्त्या स्वसमवेतं व्यज्यत इत्यभिप्रेत्याह ।
For Private and Personal Use Only