________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
शङ्क० टी०। पराभिमतं चणिकतायां प्रमाणमाह । यत् सदिति । व्याप्तिपक्षधर्मताज्ञानमात्रमनुमितिजनकं तदुपदर्शको चोदाहरणोपनयावेवेति यवयव एव प्रयोगो बौद्धवाभिमतः । विवादास्पदत्वमिह पक्षतावच्छेदकम् । शब्दादिरिति त्वधिक स्फुटार्थम् । यद्वा शब्दादित्वेनैव पक्षता । विवादास्पदत्वमन्यशब्दे सिद्धसाधनवारणाय । शब्दादिरिति चालोकस्य पक्षतानिरासाय । अन्यथा तत्र सत्त्वस्य हेतोरसिद्धौ भागासिद्धिः स्यात् । श्रादित्वं प्रामाणिकत्वं पक्षतावच्छेदकम् सत्त्वं चार्थक्रियाकारित्वं हेतुरिति तयोर्भदोऽन्यथा तदैक्ये व्याप्तिग्राहकमानादेव साध्यसिद्धावनुमानवैययं स्यात् । यद्वा सत्त्वेनैव पक्षता हेतुता च अनुमितिस्तु प्रकारभेदं लिङ्गोपधानादिकमादायेति न दोषः । घटः प्रसाध्याङ्गको दृष्टान्तः न च सत्त्वेन तस्यापि पक्षत्वे दृष्टान्तत्वानुपपत्तिः । माध्यवत्तया निश्चितत्वमात्रेणैव दृष्टान्तता न तु पक्षभिन्नत्वमपि तन्त्रम् न चांशतः सिद्धमाधनं विशेषतः सिद्धावपि सामान्यसिद्धेरुद्देश्यत्वात् । घटभिन्नसत्त्वेन वा पक्षता । प्रतिबन्धेति । प्रतिबन्धो व्याप्तिस्तस्याः क्षणिकत्वनिरूपिताया असिद्धेरित्यर्थः । क्षणिकत्वनिरूपिता व्याप्तिरन्यशब्दत्वादौ प्रसिद्धा सत्त्वे प्रतिषिध्यत इति नाप्रसिद्धिः ॥
भगौ० टी० । क्षणभङ्गे पराभिमतं मानमाह । यत् सदिति । सत्त्वं प्रामाणिकत्वमर्थक्रियाकारित्वं वा हेतुः। पक्षत्वं च न तेन रूपेण व्याप्तिग्राहकमानेनैव सिद्धावनुमानवैयर्थात् किन्त्वन्यथेत्याह।
For Private and Personal Use Only