________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
रघु० टौ. । मति च बलवत्तरबाधकप्रमाणे माधकसहस्रस्थाप्यकिञ्चित्करत्वात् तदेवादौ निरस्थति । तत्रेत्यादिना । क्षणभङ्गत्यादौ भङ्गत्रयं भङ्गसाधकमानपरमिति वदन्ति ॥
मथु० टी० । सति बलवति बाधके साधकसहस्रस्थाकिञ्चित्करत्वम् अतः प्रथममात्मनो नित्यत्वादिसाधने बाधकमाशय निराकरोति । श्रात्मनौति । तत्र विवेचनविषये श्रात्मनीत्यर्थः । बाधकं भवदिति । नित्यत्वज्ञानमुखाद्याश्रयत्वशरीरादिभिन्नत्वरूपधर्मसाधने बाधकं भवदित्यर्थः । क्षणभङ्गः श्रात्मनः क्षणिकत्वम् । एतचात्मनो नित्यत्वे बाधकम् । नित्यत्वं च ध्वंसाप्रतियोगित्वरूपं तबये ध्वंसे अलीके वा प्रसिद्धम् । तन्मते ऽपि ध्वंसस्यापि अनन्तत्वाभ्युपगमात् । बाह्यार्थभङ्गो वेति । पदार्थमात्रस्य ज्ञानभिन्नत्वविरहो वेत्यर्थः । एतच्च प्रात्मनो ज्ञानाश्रयत्वे विज्ञानवादिनां बाधकम् । अभेदे श्राधाराधेयभावामम्भवात् । गुणिगुणभेदभङ्गो वेति । गुणिनि गुणभेद विरहो वेत्यर्थ:(१) । एतदपि ज्ञानसुखाद्याश्रयत्वे बाधकमिति भावः । अनुपलम्भो वेति । श्रात्मनः शरीरादिभिन्नत्वेनानुपलम्भो वेत्यर्थः । एतच्च प्रात्मनः शरीरादिभिन्नत्वे बाधकमिति भावः ॥
तत्र न प्रथमः प्रमाणाभावात् । यत् सत् तत् क्षणिकं यथा घटः संश्च विवादाध्यासितः शब्दादिरिति चेत् न प्रतिबन्धासिद्धेः॥
__ (१) गणिगुणभेदभङ्गो वेति मूलपाठमनुसृत्य व्याख्यातम् ।
For Private and Personal Use Only